SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका नामादयो निक्षेपा भावाभावे निष्फलाः । अत्र नामादयो निक्षेपाः कारणरूपा भावाभावे कार्यप्रवृत्त्यभावेन निष्फला भवन्ति । तदुक्तमाचाराङ्गटीकायां लोकविजयाध्ययने फलमेव गुणः फलगुणः । फलं च क्रियायां भवति। तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकानैकान्तिको भवत्फलं गुणोऽप्यगुणो भवन्ति। सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकानाबाधसुखाख्यसिद्धिगुणो व्याप्यते । एतदुक्तं भवति-सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवत्यपरा तु सांसारिकसुखफलाध्यास एव फलाध्यारोपान्निष्फलेत्यर्थः॥() इति वचनाद्रत्नत्रयपरिणमनं विना क्रियाया भवसुखः स्यादतः क्रिया निष्फलेत्याशयः। अतो भावनिक्षेपं विमुच्य नामादित्रयो निक्षेपा निष्फला भवन्तीत्याशयः ॥ १४३॥ [नयपदार्थविचारः] [१६६] अथ नयपदार्थविचारगाथामाह [मूल] भावानां बोधभावेन सन्ति ज्ञानांशका नयाः । धर्मानन्तात्मभावेऽस्य धर्मैकस्थापनं नयः॥१४४॥ (व्याख्या) भावानाम् = पदार्थानां बोधभावेन नया ज्ञानांशकाः सन्ति भवन्ति। अथ नयलक्षणमाह धर्मेत्यादि। अनन्तधर्मात्मकवस्तुन्येकधर्मस्योन्नयनं = ज्ञानं नयः। तथा रत्नाकरे नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥ स्वाभिप्रेतादंशादितरांशापलापी पुनर्नयाभासः॥१४४॥ [नयभेदाः] [१६७] अथ नयभेदमाह [मूल] तत्र व्याससमासाभ्यां नयो युगविधो भवेत्। ५३ = व्यासतोऽनेकभेदः स्याद् युगभेदः समासतः॥१४५॥ (व्याख्या) तत्रेत्यादि। व्यासेति । विस्तृतभावतः = भेदानुभेदतः । समासत इति । सङ्क्षेपतः। शेषं स्पष्टम् ॥ १४५॥ [द्रव्यार्थिकनयविचारः] [१६८] अथ समासेन युगभेदो नयस्यास्ति द्रव्यार्थिकः पर्यायार्थिकश्चेति। तत्र द्रव्यार्थिकविचारगाथामाह [मूल] कालत्रिकैकैव द्रव्यः प्रयोजनसमागते । द्रव्यार्थिकोऽस्ति पर्यायोत्पादव्ययध्रुवान्वितः॥१४६॥ १. यहां पर कालत्रिक एकद्रव्यं पाठ अधिक संगत प्रतीत होता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy