________________
५४
स्याद्वादपुष्पकलिका
कालत्रिके एकैवेति सञ्ज्ञा येनार्थेन स्याद्यस्य द्रव्यस्य स द्रव्यार्थिक नयो भवतीति। एतद्भेदास्तु पूर्वोक्ता एव भवन्तीति। द्रवति द्रोष्यति अद्वत् तांस्तान्पर्यायानिति द्रव्यं तदेवार्थः सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः। पर्यायेति। उत्पादविनाशौ प्राप्नोतीति पर्यायः स एवार्थो सोऽस्ति यस्यासौ पर्यायार्थिकः। एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति।
___ [१६९] ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि कथं नोक्तः? इति चेत्, गुणस्य पर्याये एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्सङ्ग्रहात्। पर्यायो हि द्विविधः क्रमभावी सहभावी च। तत्र सहभावी गुण इत्यभिधीयते। पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः।
। [१७०] ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्येते, ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत्, नैतदनुपद्रवं, द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धः। तथाहि- द्विप्रकारं सामान्यमुक्तम्- ऊर्दध्वतासामान्यम्, तिर्यक्सामान्यं च। तत्रोर्दध्वतासामान्यं द्रव्यमेव, तिर्यक्सामान्यं तु प्रतिव्यक्ति सदृश-परिणामलक्षणं व्यञ्जनपर्याया एव स्थूलाः कालान्तरस्थायिनः। शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धेः विशेषोऽपि वैसदृश्यविवर्तलक्षणः पर्याय एवान्तर्भवतीति नैताभ्यामधिकनयावकाश इति॥१४६॥
द्रव्यारोपविचारः] [१७१] अथ द्रव्यार्थिकनैगमगतप्रथमद्रव्यारोपविचारगाथामाह[मूल] पञ्चास्तिकायिकानां च परावर्तनधर्मतः। कालस्य द्रव्यकथनं द्रव्यारोपोऽस्ति तद्गुणे॥१४७॥
(व्याख्या) पञ्चास्तीत्यादि। धर्माधर्माम्बरजीवपुद्गलानां पञ्चास्तिकायानां परावर्तनधर्ममादृत्य कालस्य द्रव्यकथनं तद्गुणे द्रव्यारोपोऽस्ति॥१४७।।
[गुणारोपविचारः] [१७२] अथ गुणारोपविचारसूचकगाथामाह-[मूल] ज्ञानादिगुणमादृत्य तद्रव्यमनपेक्ष्य च। ज्ञानमेव यथा जीवस्तद्गुणारोप उच्यते॥१४८॥
(व्याख्या) ज्ञानादीत्यादि। तद्र्व्यमनपेक्ष्य, चः पुनरर्थे, तद्गतज्ञानदर्शनशमादिगुणमादृत्य गुणानां द्रव्यकथनं तद्गुणारोपोऽस्ति। यथा जीवस्य ज्ञानादयो गुणास्ते समादृत्य जीव इति कथनरूपमिति। ज्ञानमेव जीवो दर्शनमेव जीवः शम एव जीवश्चेत्यादयो गुणारोपः। एवं गतिस्थित्यवगाहनमूर्तादिगुणमुपेत्य गत्यादीनां धर्माधर्मव्योमपुद्गलादिद्रव्यकथनमेतद्गुणारोप इति ज्ञेयम्॥१४८॥
कालारोपविचारः]
[१७३] अथ कालारोपगाथाद्वयमाह[मूल] अतीतकालभावानां करोत्यारोपकं यदा। तदा सम्प्रतिकाले च भूतारोपः स प्रोच्यते॥१४९॥ [मूल] वीरनिर्वाणयोगेन यथाद्य दीपमालिका। एवमनागतारोपो यथास्ति पद्मवासरः॥१५०॥
(व्याख्या) अतीतेत्यादि। यदा सम्प्रतिकाले = वर्तमानकाले अतीतकालभावानां य आरोपकं करोति तदा स कालो भूतारोपः प्रोच्यते इति। चकारेण एवमागामिकालगतपदार्थानां वर्तमानकाले आरोपः क्रियते स