________________
स्याद्वादपुष्पकलिका
५५
कालोऽनागतारोपः प्रोच्यते। अत्र दृष्टान्तमाह- वीरेत्यादि । यथातीतकाले चतुर्थारकप्रान्ते वीरजिननिर्वाणमभूत्तत्पर्ववासरमाश्रित्याधुना पञ्चमारके कार्तिकामावस्यावासरागते दीपमालिकामालम्ब्यात्र दिवसे जिननिर्वाणोत्सवं कुर्वन्ति अद्य वीरनिर्वाणोऽस्तीति वदन्ति । तत्तु बभूव अतस्तमुपेत्यैनं कालं दीपमालिकेति वदन्ति। एवं मेरुत्रयोदशीपौषदशम्यक्षयतृतीयादयोऽतीतकाला दृष्टान्ता वाच्या। एवमनागतकालारोपोऽपि बोद्धव्यः। यथेत्यादि। यथेति दृष्टान्तः पद्मेति। यदद्य पद्मनाभ इत्यागामिजिनस्य वासरो = दिवसः पद्मवासरः । अत्र पद्मनाभजिनः त्वागामिकाले भविष्यति, अधुनैव तत्मूर्तिं पर्ववासरं वा कथं जना निगदन्ति ? तदागामिकालिककल्याणकोत्सवमुपेत्यागामिकालारोपो नैगमनयापेक्षया पद्मजिनवासरोऽस्तीत्यादिकं जना वदन्तीति श्लोकद्वयार्थः ॥ १४९॥१५०॥
[हेत्वाद्यारोपविचारः]
[१७४] अथ चतुर्थहेत्वाद्यारोपगाथामाह
[मूल] उपादानसुनैमित्तासामान्यापेक्षकादिकः। कार्यारोपः कारणेऽस्ति द्रव्यार्हन्तारको यथा॥१५१॥ (व्याख्या) कारणे कार्यारोपस्तमाह-तत्रोपादाननिमित्तासाधारणापेक्षाहेतुकैः कारणं चतुर्विधमस्ति। तत्र कस्मिन्नपि कारणे यः कार्यारोपः क्रियते तत्कारणे कार्यारोपोऽस्ति । तत्र द्रव्यक्रियासाध्यसापेक्षमनुजानां धर्मो निमित्तकारणकोऽस्ति। एवं जिनादयोऽपि मोक्षहेतुस्तमादृत्य शक्रेन्द्रः शक्रस्तवे तारयाणं इत्यगदत्। एवं हेतौ कर्तृत्वदायकत्वा(त्वोत् ?)क्षेपादयोऽपि ज्ञेयाः। एवमारोपोऽनेकविधोऽस्तीति॥१५१॥
[सङ्कल्पांशनैगमस्वरूपम्।
[१७५] अथ सङ्कल्पांशनैगमस्वरूपविचारगाथामाह
[मूल] आरोपसर्जनारोपसङ्कल्पांशादिभेदतः। नैकगमग्राहरूपः सच्चैतन्यं च नैगमात्॥१५२॥ (व्याख्या) आरोपेत्यादि । धर्मयोर्धर्मिणो धर्मधर्मिणोश्च प्रधानोपसर्जनभावेनारोपसङ्कल्पांशादि भेदाद्यद्विवक्षणं स नैकगमो नैगम इति । पर्यायद्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवं रूपो नैको गमो = बोधमार्गो यस्यासौ नैकगमो नैगमो नाम ज्ञेयः । अत्रोदाहरणमाह- सच्चैतन्यमिति ।
१) सच्चैतन्यमात्मनीति धर्मप्रधानोपसर्जनभावेन विवक्षणमिति । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणं विशेष्यत्वात्, सत्ताख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन, तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ।
२) तथा वस्तु पर्यायवद्द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात्प्राधान्यम्, पर्यायवद्द्द्रव्यस्य तु विशेषणत्वाद्गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः।
३) क्षणमेकं सुखी विषयासक्त जीव इति धर्मधर्मिणोरिति। अत्र विषयासक्तजीवाख्यस्य धर्मिणो मुख्यत विशेष्यत्वात्, सुखलक्षणस्य तु धर्मस्याप्रधानता तद्विशेषणत्वेनोपात्तत्वादिति धर्मधर्म्यालम्बनोऽयं नैगमस्य तृतीयो भेदः। न चास्यैवं प्राधान्येन प्रमाणात्मकत्वानुषङ्गो, धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात्, तयोरन्यतर एव हि नैगमनयेन प्रधानतयानुभूयते, प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्धि ज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यदिति। चकारेण नैगमादेतद्भेदत्रयं बोध्यमिति ॥ १५२ ॥