________________
५६
[अंशग्राही नैगमनयविचारः ]
[१७६] अथांशग्राही नैगमनयविचारगाथामाह
[मूल] अंशग्राही नैगमश्च सत्तासिद्धिसमानकः। यथा सूक्ष्मः सिद्धसमो भवेत्संसारिको जिनः॥१५३॥ (व्याख्या) अंशेत्यादि । अंशो द्विविधो भिन्नांशोभिन्नांशश्चेति । तत्र प्रथमः स्कन्धादीनामंशः पृथग्भावस्थितिरूपः, द्वितीयोऽविभागांशरूपः । एतादृशो नैगमः द्रव्ये अंशमादृत्य भवस्थजीवः सत्तामादृत्य सिद्धसदृशः सत्तामपेक्ष्य नैगमो मन्यते। इत्येतदेवाह- यथेत्यादि । सूक्ष्मेति । निगोदिकोऽपि जीवः सिद्धिसत्तामादृत्य सिद्धसमोऽस्ति। पुनः शेषकर्म-स्थितिसत्तामुपेत्य तीर्थकरोऽपि संसारिकोऽस्तीति॥१५३॥
[१७७] अथ शेषद्रव्येषु नैगमनयस्य विचारगाथामाह–
[मूल] एवं पञ्चास्तिकायेषु प्रोक्तोऽयं नैगमो नयः । जिनागमाच्च बुद्ध्या च सर्वभावेषु योजयेत्॥ १५४॥
=
(व्याख्या) एवमित्यादि। एवं जीवद्रव्यगतदृष्टान्तानुसारेण पञ्चास्तिकायेषु बोध्यमित्ययं नैगमो नयः प्रोक्तः कथितः। इत्थं सर्वभावेषु पदार्थेषु निजमतिविकल्पानुसारेण जिनागमान्नैगमनयो योजयेदिति॥ इति
नैगमनयः॥१५४॥
=
[सङ्ग्रहनयविचारः]
[१७८] अथ सङ्ग्रहनयभावविचारप्ररूपकगाथामाह
[मूल] सङ्ग्रहज्ञानयोगेन एते पञ्चास्तिकायिकाः।
सामान्यान्यधर्मरूपौ वदन्ति सङ्ग्रहान्विताः ॥ १५५॥
स्याद्वादपुष्पकलिका
(व्याख्या) सङ्ग्रहेत्यादि। सामान्यवस्तुग्राहकः सङ्ग्रहः। सङ्ग्रहज्ञानान्विता जनाः सङ्ग्रहज्ञानयोगेन एते धर्मादयः पञ्चास्तिकायिकाः, सामान्यश्च अन्यश्च सामान्यान्यौ, धर्मात्मको रूपो धर्मरूपः, सामान्यान्यौ धर्मरूपौ सामान्यविशेषधर्मरूपौ ते वदन्ति = निगदन्तीत्यर्थः। अतः सङ्ग्रहो द्विविधः प्रोक्तः - सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्चेति। तत्र मूलोत्तराभ्यां सामान्यसङ्ग्रहो द्विप्रकारोऽस्ति । तत्र मूलसामान्यसङ्ग्रहोऽस्तित्वादिभेदेन षड्विधः, उत्तरसामान्यसङ्ग्रहः = उत्तरजातिसमुदायभेदरूपो जातितो द्विविधोऽस्ति । तत्र गवि गोत्वम्, घटे घटत्वमिति जातिः। तथा समुदायतो मनुष्यसमूहे सामान्यमनुष्यग्रहणमिति। तत्रोत्तरसामान्यं चक्षुर्दर्शनाचक्षुर्दर्शनेन गृह्णाति, मूलसामान्यं प्रत्यक्षज्ञानत्रयेन गृह्णातीति॥१५५॥
[सामान्यस्य लक्षणम् ]
[१७९] अथ सामान्यलक्षणगाथामाह–
[मूल] द्रव्येषु व्याप्यभावस्थे गुणपर्यायव्यापकात्।
परिणामिलक्षणस्थः सामान्यः प्रोच्यते तदा ॥१५६॥
(व्याख्या) द्रव्येष्वित्यादि । व्याप्यभावस्थेषु द्रव्येषु स्वस्वद्रव्ये व्यापकस्थिताः ये नित्यत्वादयः सत्तागतधर्मस्य पारिणामिकलक्षणेन सङ्ग्रहकरणशीलः स सामान्यसङ्ग्रहस्तद्भेदः पूर्वोक्त एव बोद्धव्यः ॥ १५६ ॥