________________
स्याद्वादपुष्पकलिका
[गुणपर्यायान्वितसामान्यस्वरूपम्] [१८०] पुनर्गुणपर्यायान्वितसामान्यस्वरूपपक्षान्तरमाह[मूल| निरवयवैकनित्याक्रियसर्वगतान्वितः। सामान्योऽस्ति पिण्डरूपो गुणपर्यायसंयुतः॥१५७॥
(व्याख्या) निरवयवेत्यादि। निरवयवत्वैकत्वनित्यत्वाक्रियत्वसर्वगतत्वान्वितो गुणपर्यायसंयुतः पिण्डरूपः सामान्योऽस्तीत्यन्वयः। अथवा सामान्यरूपतया सकलं सगृह्णातीति सङ्ग्रहः। वा सर्वेऽपि भेदाः सामान्यतया सगृह्यन्ते अनेनेति सङ्ग्रहः। एतद्व्याख्या तु पूर्वोक्ता एव। वा स्वसत्ताख्यं महासामान्यं सङ्ग्रहणातीति सङ्ग्रह इति।
अन्ये(न्यैः) गोत्वादिकमवान्तरसामान्यं पिण्डितार्थमभिधीयते। तत्रेत्थं सामान्यो द्विधा- महासत्तारूपोऽवान्तरसत्तारूपश्चेति। तत्र यद् नित्यनिरवयवैकत्वमक्रियत्वगं(यं सर्वगं) च सामान्यम् एतन्महासामान्यम्, गवि गोत्वादिकम् अवान्तरसामान्यं चेति॥१५७॥
[विशेषगुणाः] [१८१] अथ विशेषगुणहेतुगाथामाह[मूल| नित्यानित्यसावयवनिरवयवसक्रियः। देशगः सर्वगश्चास्ति विशेषो गुणहेतुकः॥१५॥ (व्याख्या) नित्येत्यादि। स्पष्टम्॥१५८॥
वस्तूनां षट् मूलसामान्यभेदाः] [१८२] अथ वस्तूनां षट् मूलसामान्यभेदाभिधानरूपगाथामाह[मूल] मूलसामान्यभेदामी वस्तुत्वास्तिप्रमेयकम्।
द्रव्यसत्त्वागुरुलघु: रसोन्माना भवन्ति च॥१५९॥' (व्याख्या) द्रव्यसहचारित्वादेते षट् मूलसामान्यस्वभावा इति॥१५९।।
[सामान्यविशेषस्वभावविचारः] [१८३] अथाधाराधेयसामान्यविशेषस्वभावविचारगाथामाह[मूल] नित्याद्युत्तरसामान्येतरे परिणमादयः। प्रोच्यन्ते गुणपर्यायाधारत्वं वस्तुकं बुधाः॥१६०॥
(व्याख्या) नित्येत्यादि। उत्तरसामान्यास्तु नित्यादयः पूर्वोक्ता एव भवन्ति। इतरे विशेषास्तु परिणमनादयः सन्ति। कथमेवमुच्यते? प्रोच्यन्त इत्यादि। बुधैः गुणपर्यायाधारकत्वं वस्तुकं प्रोच्यन्ते गुणा द्रव्यत्वादयः। पर्याया द्रव्य-द्रव्यव्यञ्जनादयः तदाधारं द्रव्यमिति बोध्यम्॥१६०॥
१. यहां पर भेदामी की जगह भेदा अमी पाठ अधिक संगत लगता है। २. यहां पर लघुः की जगह लघू पाठ अधिक संगत लगता है। ३. यह श्लोक ला. प्रत में नहीं है। ४. यहां पर सामान्या इतरे पाठ अधिक संगत लगता है।