________________
५८
स्याद्वादपुष्पकलिका
[द्रव्येषु सामान्यविशेषसङ्ग्रहनयनिरूणम्। [१८४] अथ द्रव्येषु सामान्यविशेषसङ्ग्रहनयनिरूपकगाथामाह[मूल] सङ्ग्रहज्ञानयोगेन द्रव्यं सामान्यतो वदेत्। विशेषसङ्ग्रहतया जीवेति प्रवदन्ति ते॥१६१॥
(व्याख्या) सङ्ग्रहेत्यादि। प्रौढाः सङ्ग्रहस्य यज्ज्ञानं सङ्ग्रहज्ञानम्, सङ्ग्रहज्ञानस्य योगो = व्यापारः सङ्ग्रहज्ञानयोगस्तेन सामान्यतो द्रव्यम् इति वदन्ति। पुनस्ते विशेषसङ्ग्रहनयाज्जीव इत्यादयः प्रवदन्तीत्यन्वयः। विशेषश्चासौ सङ्ग्रहश्च विशेषसङ्ग्रह इति॥१६१॥
__ [द्रव्येषु सामान्यविशेषविभागः] [१८५] अथ पुनरपि द्रव्येषु सामान्यविशेषविभागगाथामाह[मूल] नित्यादयश्च सामान्या विपरीता विशेषकाः। निजमेधानुयोगेन द्रव्येषु सङ्ग्रहो वदेत्॥१६२॥
(व्याख्या) नित्येत्यादि। तत्र नित्यः सामान्यः अनित्यो विशेषः, एकः सामान्यः अनेके विशेषाः, अस्तित्वं सामान्यं नास्तिभावोः विशेषः, भेदः सामान्योऽभेदो विशेषः, निरवयवः सामान्यः सावयवो विशेषः, तथा निष्क्रियः सामान्यः सक्रियो विशेषः, तथा सर्वगतः सामान्यः असर्वगतो विशेष इत्यादयो बोद्धव्याः। एवम् = अमुना प्रकारेण निजमेधानुयोगेन = स्वप्रज्ञया शास्त्रानुसारेण सङ्ग्रहो द्रव्येषु = द्रव्यादिषु वदेदित्यर्थः॥१६२॥
[सङ्ग्रहनयस्य सङ्ग्रहीतादिभेदाः] [१८६] अथ सङ्ग्रहद्वारगतसङ्ग्रहीतादिस्वरूपगाथायुगमाह[मूल] सामान्याभिमुखेन ग्रहणं यत्सङ्ग्रहीतकः। ज्ञात्वैकमेकजातीनामेकेन सङ्ग्रहात्मकः॥१६३॥ [मूल| सर्वभावेष्वनुगमसामान्यप्रतिपादनम्।
___सोऽनुगमसङ्ग्रहः स्याद् व्यतिरेकोऽन्य इति२ ग्रहात्॥१६४॥ (युग्मम्)
(व्याख्या) सामान्येत्यादि। सामान्याभिमुखेन यदा ग्रहणं तत्सङ्ग्रहीतसङ्ग्रहः द्रव्यवद्। एकजातीनां वस्तुनामेकत्वभावं विज्ञाय एकेन यो गृह्यते सङ्ग्रहात्मकः पिण्डरूपेण स पिण्डितसङ्ग्रहः, एक आत्मा इतिवत्। सर्वेत्यादि। सर्वव्यक्तिषु अनुगतस्य सामान्यस्य यत्प्रतिपादनं सोऽनुगमसङ्ग्रहः प्रोच्यते, सच्चिदात्मतयात्मा इति वदति। व्यतिरेक इत्यादि। इतरधर्मनिषेधाद् ग्राह्यधर्मसमाग्राहको व्यतिरेकसङ्ग्रह इति। यथा अजीव इत्यादि जीवनिषेधेनाजीवसङ्ग्रहः। जीव इति वक्तव्ये अजीवनिषेधेन जीवसङ्ग्रह इत्यादि। एवं धर्मादीनामपि बोध्यम्। अतः सङ्ग्रहः सङ्ग्रहीतादिश्चतुर्भेदोऽस्ति॥१६३॥१६४॥
[सङ्ग्रहनयस्य भेदान्तरम्। [१८७] अथ पुनः सङ्ग्रहनयस्य भेदान्तरगाथामाह[मूल] वा महदवान्तराभ्यां सङ्ग्रहो द्विविधो भवेत्।
सत्तारूपोऽस्ति प्रथमः पिण्डितार्थो द्वितीयकः॥१६५॥
१. यहां पर जीवेति की जगह जीव इति पाठ अधिक संगत लगता है। २. यहां पर न्य इति की जगह न्यथा पाठ अधिक संगत लगता है।