________________
स्याद्वादपुष्पकलिका
(व्याख्या) वा महदित्यादि। वा = अथवा सङ्ग्रहो द्विविधो = द्विप्रकारो भवेत्। तथाहिमहासामान्यसङ्ग्रहः, अवान्तरसामान्यसङ्ग्रहश्चेति। तदेतदर्थमाह- सत्त्वेत्यादि। प्रथमो महासामान्यः सत्तारूपोऽस्ति। नो (?) नित्यो निरवयवो निक्रियः सर्वगश्च सामान्यमिति। पिण्डितेत्यादि। तथा द्वितीयकोऽवान्तरसामान्यो गवि गोत्वादय इति गाथार्थः।। इति सङ्ग्रहः॥१६५॥
व्यवहारनयविचारः] [१८८] अथ व्यवहारनयविचारगाथामाह[मूल| भेदान्तरविभजनैर्व्यवहारप्रवर्तनम्। भवेद् व्यवहारनयः पूर्वप्रोक्तानुसारतः॥१६६॥
(व्याख्या) भेदेत्यादि। सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहार इति। सत्स्वार्थान्विधाय न तु निषिध्य(?)मः परामर्शविशेषस्तानेव विभजते स व्यवहारनयो भवेत्। एतद् द्वारगाथायां व्याख्यातमेवास्तीति। तद्विभजनमेवम्, तथाहि- द्रव्यं द्विविधं जीवाजीवाभ्यामिति। जीवोऽपि सिद्धसंसारिभेदेन द्विविधोऽस्तीत्यादयो बोद्धव्याः। एष एव द्वारगाथायां व्यवहारो विभजनप्रवत्तितो द्विविधः प्रोक्तोऽस्ति॥१६६॥
[प्रवृत्तिव्यवहारविचारः] [१८९] अथ प्रवृत्तिव्यवहारविचारगाथामाह[मूल] सर्वद्रव्यस्वरूपाणां शुद्धप्रवृत्तिलक्षणैः । चलनादिसहायैश्च स द्रव्यज्ञायको भवेत्॥१६७॥
(व्याख्या) सर्वेत्यादि। समग्रधर्मादिद्रव्याणां स्वरूपाणां शुद्धप्रवर्तनलक्षणनिजनिजगत्यादि- सहचरणरूपाणामिति। चलनादिसहायैरिति। आदिशब्दादधर्मास्तिकायादिकमपि ग्राह्यम्। यो द्रव्यज्ञायकः स प्रवृत्तिव्यवहारः॥१६७॥
[साधनाव्यवहारविचारः]] [१९०] अथ पुनः प्रवृत्तिसाधनाव्यवहारविचारगाथामाह[मूल] लोकालोकज्ञानरूपो जीवस्य साधना तथा। स्यात्सम्पूर्णपरमात्मभावसाधनरूपकः॥१६८॥ [मूल] गुणानां साधकावस्थारूप: शुद्धप्रवृत्तिकः। गुणश्रेण्यारोहकादिः सा भवेत्साधना वरा॥१६९॥
(व्याख्या) लोकेत्यादि। जीवस्य लोकालोकादिज्ञानरूपः शुद्धप्रवृत्तिव्यवहारः प्रथमः। तथा साधनाव्यवहारः स्वसम्पूर्णपरमात्मभावसाधनरूपः स्यादित्यर्थः। गुणानामित्यादि। गुणानां साधकावस्थानरूपः शुद्धप्रवृत्तिकः। गुणस्थानगत-उपशम-क्षपकश्रेण्यारोहणादि साधकदशा तेन वराः प्रधानाः साधना जिनैः प्रोक्तास्तदेव व्यवहारः स्यादित्यर्थः॥१६८॥१६९॥
___ [अशुद्धसद्भूतासद्भूतव्यवहारविचारः] [१९१] अथाशुद्धसद्भूतासद्भूतव्यवहारविचारगाथामाह
१. यहां पर शुद्धप्रवृत्तिलक्षणैः इस पद की तृतीया विभक्ति का अन्वय दुर्घट लगता है।