________________
स्याद्वादपुष्पकलिका
[मूल] गुणज्ञानाद्यभिन्नेन सद्भूतव्यवहारकः। व्यवहारोऽसद्भूतः स्याद्यद्गुणान्यसमन्वितः॥१७०॥
(व्याख्या) गुणेत्यादि। अशुद्धोऽपि सद्भूतासद्भूतभेदेन द्विविधः। तत्र यस्मिन् क्षेत्रेऽभेदभावेन स्थिता ये ज्ञानादयो गुणास्तेनाभेदव्यवहारः स सद्भूतव्यवहारः स्यात्। पुनर्यो गुणान्यसमन्वितः कषायात्मादिभिर्मानवोऽहं सुरोऽहमित्याद्यात्मकं ज्ञानं सोऽसद्भूतव्यवहारः स्यादिति॥१७०॥
[असद्भूतस्य संश्लिष्टासंश्लिष्टभेदौ] [१९२] अथासद्भूतस्य संश्लिष्टासंश्लिष्टविचारगाथामाह[मूल] संश्लेषितोऽशुद्धरूपोऽहं शरीरीति प्रोच्यते। पुत्राद्यसंश्लिष्टरूपोऽसद्भूतः स्याद्भवे खलु॥१७१॥'
(व्याख्या) संश्लेषितेत्यादि। संश्लिष्टाशुद्धव्यवहारो मम देहोऽस्तीत्यादिकः। पुत्रेत्यादि। मम पुत्रकलत्रादयः सन्तीत्याद्यसंश्लिष्टासद्भूतव्यवहार इति शेषः। व्याख्यानं तु द्वारगाथाव्याख्याने पूर्वमुक्तमेव बोध्यम्॥१७१॥
[१९३] अथ व्यवहारव्याख्योपसंहारगाथामाह[मूल] एवं पञ्चास्तिकायेषु योज्यो मेधानुसारतः। व्यवहारस्वरूपश्च(ञ्च)समासेन विनिर्ममे॥१७२॥ (व्याख्या) एवमित्यादि। स्पष्टम्॥ इति व्यवहारनयः॥१७२॥
[ऋजुसूत्रनयविचारः] [१९४] अथ ऋजुसूत्रनयविचारगाथामाह[मूल| सुज्ञानबोधरूपो यः प्रवदेदृजुसूत्रकः। सम्प्रतिकालमाश्रित्य गदेद्भावनयो ह्ययम्॥१७३॥
(व्याख्या) सुज्ञानेत्यादि। सम्प्रतिकालं = वर्तमानकालम् आश्रित्य = आलम्ब्य यः सुज्ञानबोधरूपः स ऋजुसूत्रक इत्थं गदेदिति। अयं नयो भावनयो बोध्यः। तत्र ऋजुम्] = अवक्रं श्रुतमस्य सोयमृजुश्रुतः। यच्च साम्प्रतमुत्पन्नं वर्तमानकालीनं वस्तु, यच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयस्वरूपं वस्तु प्रत्युपन्नमुच्यते, तदेवासौ नय ऋजुः प्रपद्यते। ततो वर्तमानकालीनः पदार्थे ऋजुसूत्रोऽस्ति। अन्यत्तु शेषातीतानागतं परकीयं च यद्यस्मादसदविद्यमानं ततोऽसत्त्वादेव अवक्रं नेच्छत्ययमिति। तदुक्तम् आवश्यकनिर्युक्तौ
पच्चुप्पन्नगाही उज्जुसुओ नयविही मुणेयव्वो॥ त्ति()
यत्कालत्रये वर्तमानं वस्तु वस्तुत्वं भूतमतीतम् अनागतमभावेन साम्प्रतं यद्वर्तते ततो वर्तमानस्यैव वस्तुत्वमिति॥१७३॥
[१९५] अथैतदेवाह[मूल] भूतहेतुं समादृत्य कार्यमागामिकं तथा। वर्तते जन्यजनकै ऋजुसूत्रः स उच्यते॥१७४॥
(व्याख्या) भूतेत्यादि। भूतस्य कारणत्वं तथागामिकस्य कार्यत्वं समादृत्य = समालम्ब्य जन्यजनकभावेन यः प्रवर्तते स ऋजुसूत्र इत्युच्यते। अत ऋजुसूत्रो वर्तमानग्राहको भवतीति॥१७४॥
१. संश्लेषितोऽशुद्धरूपोऽहं शरीरीति प्रोच्यते। पुत्राद्यसंश्लिष्टरूपोऽसद्भूतः स्याद्भवे खलु॥१७५॥ शुद्धो ज्ञानादनमयोऽशुद्धो रागादिलिप्तकस्तथा। शुभाशुभौ पुण्यपापौ तुर्यः स्याद् व्यवहारकः॥१७६॥ भवोद्विग्नोपचरित: परशक्तोऽपरोऽपि हि। व्यवहारो रसविधो वच्मि ग्रन्थान्तरादहम्।।१७७॥ ये तीन श्लोक ला.प्रत में अधिक है।