SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका [१९६] अथ वर्तमान-ऋजुसूत्रभेदगाथामाह [मूल] वर्तमानग्राहकः स्यात्स नामादिश्चतुर्विधः । पूर्वोक्तयुक्त्या संयोज्यः पञ्चास्तिकायिकेषु च॥१७५॥ (व्याख्या) वर्तमानेत्यादि। स वर्तमानग्राहक ऋजुसूत्रो नामस्थापनाद्रव्यभावभेदैश्चतुर्विधो भवति। चः पुनरर्थे। पञ्चास्तिकायिकेष्वेवमेव संयोज्यः । इति ऋजुसूत्रनयः॥१७५॥ [शब्दनयविचारः] ६१ [१९७] अथ शब्दनयविचारगाथामाह [मूल] शब्दस्य योऽस्ति वाच्यार्थ : प्रधानस्तत्परिग्रहः । वस्तु त्वाहूयतेऽनेन स शब्दः प्रोच्यतेऽधुना ॥१७६॥ (व्याख्या) शब्दस्येत्यादि । 'शप् आक्रोशे यः शब्दस्य वाच्योऽर्थस्तत्परिग्रहः तत्प्रधानत्वादाह्वयते इति शब्दः। शप्यते = आहूयते वस्तु अनेनेति शब्दस्तस्य शब्दस्य यो वाच्योऽर्थः तत्परिग्रहान्नयः शब्दः, यथा कृतकत्वादित्यादि पूर्वोक्तमेवेति॥१७६॥ [१९८] अथ कालमादृत्य शब्दनयगाथामाह [मूल] शब्दस्य यो नयो व्यक्तः स शब्दनयबोधकः । प्रत्युत्पन्नं वर्तमानं शब्दः पूर्ववदिच्छति॥१७७॥ (व्याख्या) शब्दस्येत्यादि। स्पष्टम्। प्रत्युत्पन्नमित्यादि । यथेति शेषः । यथा ऋजुसूत्रनयो यद्वर्तमानमभीष्टं प्रत्युत्पन्नं वर्तमानमिच्छति तथैवायमपि शब्दनयः प्रत्युत्पन्नं वर्तमानमेव गृह्णाति । असौ नामादित्रिकनिक्षेपं विमुच्य भावनिक्षेपमुपैति॥१७७॥ [१९९] एतदेवाह– [मूल] पृथुबुध्नाकारयुतं सुलिप्तं मृन्मयादिना । पाथोर्णाद्याकृष्टशक्यं स भावघटमिच्छति॥१७८॥ (व्याख्या) पृथुबुध्नेत्यादि। पृथुबुध्नाकारवन्मृन्मयादिना लिप्तं जलाहरणादिक्रियाक्षमं प्रसिद्धभावकुम्भमिच्छति॥१७८॥ [२००] अथैतस्यैव स्पष्टार्थं गाथामाह [मूल] नामाद्यनिलकुम्भानि तद्भावेच्छुः स नेच्छति। तच्छब्दार्थप्रधानोऽयं चेष्टालक्षणमिच्छति ॥ १७९॥ (व्याख्या) नामादीत्यादि। नामस्थापनाद्रव्यरूपाणि त्रीणि कुम्भानि नेच्छति। भावघटमिच्छुः शब्दार्थप्रधानो ह्येष नयः। चेष्टालक्षणश्च घटशब्दार्थो घटः चेष्टायामेव घटते। अतो घटते इति घटः तेन जलाहरणादिचेष्टां कुर्वन् शब्दो घटमिच्छतीति॥१७९॥ [ऋजुसूत्रशब्दयोः परस्परभेदः ] [२०१] अथ ऋजुसूत्रशब्दयोः परस्परभिन्नभावं प्रदर्शयन्गाथामाह [मूल] निक्षेपोदधिमादृत्य गौणेन घटमिच्छति । ऋजुसूत्रो वर्तमानसमयग्राहको भवेत्॥१८०॥
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy