________________
स्याद्वादपुष्पकलिका
(व्याख्या) निक्षेपेत्यादि। ऋजुसूत्रो वर्तमानसमयग्राहको भवेत्। स तु निक्षेपोदधि = नामादिनिक्षेपचतुष्कमादृत्य गौणेन = सामान्येन घटमिच्छति॥१८०॥
[२०२] अथ शब्दस्तु नैवमिच्छति अत एवाह[मूल] शब्दार्थग्राहकः शब्दो भावनिक्षेपग्राहकः। सद्भावासद्भावतः स्याद्धर्मानेकसमन्वितः॥१८१॥
(व्याख्या) शब्दार्थेत्यादि। भावनिक्षेपग्राहकः शब्दः सद्भावासद्भावावक्तव्यादिभिरनेकधर्मसमन्वितः स्यादिति। अतोऽत्र सप्तभङ्गी पूर्ववज्ज्ञेया इति। अनेन शब्दनयः ऋजुसूत्राद्विशेषतरवस्तुमभ्युपैति॥१८१॥
[शब्दनयमादृत्य सप्तभङ्गी] [२०३] अथ शब्दमादृत्य सप्तभङ्गीगाथामाह[मूल] द्रव्यादिषु स्वभावैश्च नित्यानित्यादिभेदतः।
सप्तभङ्ग्यः प्रयोज्याश्च पूर्वोक्तास्ते भवन्ति च॥१८२॥ (व्याख्या) द्रव्येत्यादि। ते च समग्रद्रव्यादिषु नित्यानित्यादिभेदतः स्वभावैः पूर्वोक्ताः सप्तभङ्ग्यः प्रयोज्या इति॥१८२॥
[२०४] एतदेवाह[मूल] एकैकैस्त्रिविकल्पाश्च युगयोगैस्त्रयस्तथा।
त्रिकसंयोगतस्त्वैको भङ्गाः सन्ति महीधराः॥१८३॥ (व्याख्या) एकैकेत्यादि। स्यान्नित्य-स्यादनित्य-स्यादवक्तव्य-स्यान्नित्यानित्य-स्यान्नित्यावक्तव्य-स्यादनित्यावक्तव्य-स्यान्नित्यानित्यावक्तव्या इति। एवमेकादिस्वभावेष्वपि बोध्याः॥१८३॥
[२०५] अथ समग्रपदार्थेषु सप्तभङ्गीप्ररूपकगाथामाह[मूल] एवं समग्रभावेषु गुणपर्यायद्रव्यकैः। भवन्त्यनेकाद्रिभङ्ग्यो ज्ञातव्या मतियोगतः॥१८४॥
(व्याख्या) एवमित्यादि। एवम् = अमुनाप्रकारेण समग्रभावेषु = सकलपदार्थेषु द्रव्यगुणपर्यायैरनेकाः(के) अद्रिभङ्ग्यो मतियोगतो विविधाः सप्तभङ्ग्यो ज्ञातव्याः = बोधव्या इत्यर्थः॥ इति शब्दनयः॥१८४॥
समभिरूढनयविचारः] [२०६] अथ समभिरूढनयदृष्टिस्वरूपगाथामाह[मूल] या या सज्ञा द्रव्यकाणां लक्षणेन निगद्यते।
सज्ञान्तरार्थविमुखः सैव पश्यति षष्ठमः(?)॥१८५॥ (व्याख्या) या येत्यादि। अत्राकच्प्रत्ययान्तेन द्रव्यकाणामित्युक्तम्। अनेन द्रव्याणां या या सञ्ज्ञा लक्षणेन निगद्यते सा सा सञ्ज्ञा षष्ठमः समभिरूढनयः सञ्ज्ञान्तरार्थविमुखो नानालक्षणान्येव पश्यतीत्यन्वयः॥१८५॥
[२०७] अथ समभिरूढस्य पर्यायान्तरानपेक्षितभावप्ररूपकगाथामाह[मूल] नरः समभिरूढज्ञः पर्यायैकमपेक्ष्य च। न भवेत्सर्वपर्यायवाचको मिश्रदोषतः॥१८६॥ (व्याख्या) नर इत्यादि। समभिरूढनयज्ञः पुरुषः कस्यापि द्रव्यस्य पर्यायैकमालम्ब्य द्रव्यगत सकलपर्याय