________________
स्याद्वादपुष्पकलिका
वाचकश्च मिश्रदोषान्न भवेदित्यन्वयः । यदि सर्वपर्यायवाचकः स्यात्तदा सङ्करदोषो भवेदतस्तन्निवारणाय समभिरूढो नानालक्षणान्यभ्युपैति॥ इति समभिरूढनयः॥१८६॥
[एवम्भूतनयविचारः]
[२०८] अथैवम्भूतविचारमाह
[मूल]
| वाच्यार्थस्य' वाचको यः स तथैव प्रवर्तते । विशिनष्ट्यैवम्भूतज्ञो वदेदतिशयैर्जिनः ॥ १८७॥ (व्याख्या) वाच्येत्यादि । यो वाचको वाच्यार्थस्य स तथैव प्रवर्तते वाचको घटादिस्तच्चेष्टावतो वाच्यार्थस्तेन विशिनष्टि, स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति । एवम्भूतज्ञो मानुजः प्रातिहार्यातिशयान्वितो जिनेश्वर एव मन्यते, न सामान्यजिनादयः सर्वज्ञगत-ऋद्ध्यभावादिति॥१८८॥
[२०९] अथैवम्भूतनयप्रबोधाय पुनर्दृष्टान्तान्तरमाह–
[मूल] कुम्भाकृतियुतः कुम्भः शुचिपाथोर्णविभृतः।
नारीशिरः स्थितश्चेष्टां कुर्वन्स कुम्भमिच्छति॥१८८॥
(व्याख्या) कुम्भेत्यादि। स एवम्भूतनयः शुचिपाथोर्णविभृतं कुम्भाकृतिसंयुतं नारीशिरः स्थितं चेष्टां कुर्वन्तमेव कुम्भमिच्छति, न गृहकोणादिव्यवस्थितं घटमिच्छति। अयं शब्दार्थतत्पर इति। वाचकशब्दो घटादिः तस्य यो वाच्योऽर्थः चेष्टावानित्यादिः तेनार्थेन विशिनष्टि । स एव घटशब्दो यश्चेष्टावन्तमर्थमभिप्रैति नान्य इति । एवं शब्दमर्थेन (सह) नैयत्येन व्यवस्थापयतीत्यर्थः । तथार्थलक्षणमभिहितरूपेण व्यञ्जनेन विशेषयति । या घटशब्दवाच्यत्वेन प्रसिद्धा सैव चेष्टा इति । अतोऽर्थेन (सह) नैयत्येन व्यवस्थापयतीत्यर्थः । इत्येवमुभयं विशिनष्टि। शब्दस्य ध्वनिना सह अर्थस्य शब्देन सह नैयत्यं स्थापयतीत्यर्थः । एतदेवोक्तं - नारीशिरः स्थित इत्यादिकम् । चेष्टावानर्थो घटशब्देनोच्यते स घटलक्षणोऽर्थः, स च तद्वाचको घटशब्दः, अन्यदा तु वस्त्वन्तरस्यैव तच्चेष्टाभावादघटत्वं घटवतश्च वाचकत्वमित्येवमुभयविशेषको एवम्भूत इति। तदुक्तं विशेषावश्यके
वंजणमत्थेणत्थं च वंजणेणोभयं विसेसेइ । जह घडसद्दं चेट्ठावया तहा तंपि तेणेवेति ॥
इत्येवम्भूतनयः॥१८८॥
६३
[नयानां विभागः ]
[२१०] अथैतेषां नयानां शब्दार्थविचारगाथामाह
[मूल] प्राधान्यार्थेन प्रथमे चत्वारोऽर्थनयाः स्मृताः।
शब्दादयः शब्दमुख्याच्छब्दाः सन्ति जिनागमे ॥ १८९॥
१. यहां वाच्यार्थस्थो ऐसा पाठ होना चाहिए।
(वि.आ.भा.२२५२)।
(व्याख्या) प्राधान्येत्यादि । प्रथमे नैगमादयश्चत्वारो नया अर्थप्राधान्येन अर्थनयाः स्मृताः = कथिता इति। शेषास्तु शब्दादयस्त्रयो नयाः शब्दप्राधान्येन जिनागमे = प्रवचने शब्दाः = शब्दनयाः सन्ति = भवन्ति॥१८९॥