________________
६४
[नयानां शुद्धाशुद्धभावः ]
स्याद्वादपुष्पकलिका
[२११] अथैतेषां शुद्धाशुद्धभावस्व(प्र)रूपकगाथामाह
[मूल] नैगमाद्याश्च चत्वारः सामान्यार्थसमादरात्। अविशुम भवन्त्यत्र त्रयः शुद्धा विशेषतः ॥ १९०॥ (व्याख्या) नैगमेत्यादि। सामान्यार्थसमादरेण प्रथमे नैगमादयश्चत्वारोऽविशुद्धा नया भवन्ति। शेषास्त्रयो विशेषतो = विशेषार्थसूचनेन शब्दादयः शुद्धा भवन्तीति॥ इति सप्त नयाः॥
अथ नयाभासाः। अत्र नयाभासः किमुच्यते ? प्रथमैकांशं मुख्यभावेन संस्थाप्य यो द्वितीयांशस्योत्थापनं करोति स नयाभास इति। तदा नयः किमुच्यते ? पुनः पुनो लक्षणतः प्रोच्यते [नीयते] वस्तु अनेन विषयीकृतस्यार्थस्य तिष्ठति पुनरितरांशौदासीन्यभावरूपो नय इति विशेषः॥ १९०॥
श्रुताख्यप्रामाण्य
[द्रव्यार्थिकाभासनयः ]
[२१२] तत्र प्रथमं द्रव्यार्थिकाभासनयस्वरूपविचारगाथामाह
[मूल] यः पर्यायप्रतिक्षेपी द्रव्यमात्रसमादृतः। द्रव्यार्थिकाभासरूपः प्रोच्यते श्रुतिसागरे॥१९१॥ (व्याख्या) यः पर्यायेत्यादि । यः पर्यायाणां प्रतिक्षेपेण द्रव्यमात्रं समादृतः स श्रुतिसागरे = प्रवचने द्रव्यार्थिकाभासः प्रोच्यते इत्यन्वयार्थः॥१९१॥
[पर्यायार्थिकाभासः]
[२१३] अथ पर्यायार्थिकाभासस्वरूपमाह
[मूल] तथा द्रव्यप्रतिक्षेपी पर्यायमात्रग्राहकः । तत्पर्यायार्थिकाभासो विज्ञेयोऽस्ति द्वितीयकः॥१९२॥ (व्याख्या) तथा द्रव्येत्यादि । तथा यो द्रव्याणां प्रतिक्षेपेण पर्यायमात्रग्राहकः स पर्यायार्थिकाभासो विज्ञेयो भवतीति। इत्येष नयाभासः समासेन द्विविधोऽस्ति । तत्राद्यो नैगम- सङ्ग्रहव्यवहार - ऋजुसूत्रभेदाच्चतुर्विधः। अन्ये ऋजुसूत्रं पर्यायार्थिकं वदन्ति। (अन्ये) ते च चेतनांशत्वेन विकल्पस्य ऋजुसूत्रे ग्रहणात्, श्रीमज्जिनशासने मुख्यतः परिणतिचक्रस्यैव भावधर्मत्वेनाङ्गीकारात्तेषां ऋजुसूत्रो द्रव्यनय एवास्तीति॥१९२॥
[नैगमनयाभासः]
[२१४] अथ नैगमनयाभासस्वरूपगाथामाह
[मूल] धर्मधर्मिकादीनामेकान्तिपार्थिक्ययोगतः । प्रोच्यते नैगमाभासो नैगमस्यावभासतः॥१९३॥
=
(व्याख्या) धर्मेत्यादि । धर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धिः नैगमस्यावभासतो नैगमाभासः प्रोच्यते इति। आदिशब्दाद्धर्मद्वय-धर्मधर्मिद्वययोः परिग्रहः । अत्र योगशब्देनाभिसन्धिर्बोध्यः । एकान्तिक-पार्थक्याभिसन्धिः - एकान्तिकभेदाभिप्रायो नैगमाभासो = नैगमदुर्नय इत्यर्थः । अत्रोदाहरणं- यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिरिति। आदिशब्दाद् वस्तुद्वयपर्यायद्वयलक्षणयोर्धर्मिणोः, सुखजीव-लक्षणयोर्धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम्। नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयमिति॥१९३॥