________________
स्याद्वादपुष्पकलिका
[सङ्ग्रहानयाभासः]
[२१५] अथ सङ्ग्रहाभासस्वरूपगाथामाह|मूल] सत्त्वं चैतन्यभिन्नेऽपि सामान्यमात्रग्राहकः। सत्तापरामर्शरूपः प्रोच्यते सङ्ग्रहो बुधैः॥१९४॥
(व्याख्या) सत्त्वेत्यादि। यथात्मनि सत्त्वचैतन्यभिन्नेपि सामान्यमात्रग्राही परामर्शरूपः सङ्ग्रहनयो बुधैः प्रोच्यते इत्यन्वयः। सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः। सम् = एकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्ग्रहः। अयमर्थः- स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स सङ्ग्रह इति॥१९४॥
[परापरसङ्ग्रहाभासः] [२१६] अथ सङ्ग्रहभेददर्शनाय गाथामाह[मूल] स परापरभेदाभ्यां युगभेदः समादृतः। सन्मात्रग्राहको द्रव्यं भाषते परसङ्ग्रहः॥१९५॥
(व्याख्या) स परेत्यादि। स सङ्ग्रहनयः परापरभेदाभ्यां युगेत्यादि। द्विभेदः कथितः। तत्र सन्मात्रग्राहको यो द्रव्यं भाषते स परसङ्ग्रहः। निखिलविशेषभावे ह्यौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रह इति परमार्थः। इत्यग्रेतनेऽपि योजनीयम्। अत्रोदाहरणं- विश्वमेकं सदविशेषादिति यथेति (प्र.न.त.७.१६)। अस्मिन्नुक्ते हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमखिलार्थानां सङ्गृह्यते इति परसङ्ग्रहः॥१९५॥
[२१७] अथापरसङ्ग्रहं गाथार्द्धनाह[मूल| चैतन्यलक्षणो जीवो गद्यतेऽपरसङ्ग्रहः।।
(व्याख्या) चैतन्येत्यादि। अत्र द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानोऽपरसङ्ग्रहः इति(प्र.न.त.७.१९)। पुनः अपरसङ्ग्रह इति। द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकाम् = उपेक्षाम् उदाहरन्ति। धर्माधर्माभ्रपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथेति (प्र.न.त.७.२०)। अत्र द्रव्यं द्रव्यमिति अभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां सङगह्यते। आदिशब्दात चेतनाचेतनपर्यायाणां सर्वेषामेकत्वं पर्यायत्वाविशेषाद इत्यादि दृश्यमित्यपरसङ्ग्रह इति। [२१८] अथ परापरसङ्ग्रहाभासं शेषगाथार्द्धनाह
सत्ताद्वैतं स्वीकुर्वाणो द्रव्यान्यं यो न मन्यते॥१९६॥ (व्याख्या) अत्र प्रथमं परसङ्ग्रहाभासमाह सत्ताद्वैतमित्यादि। सत्ताद्वैतं स्वीकुर्वाणः सकल विशेषान्निराचक्षाणस्तदाभास इति (प्र.न.त.७.१७)। निखिलविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः सङ्ग्रहाख्यां लभते, न चायं तथेति तदाभासो भवतीति। अत्रोदाहरणं - यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनाद् इति (प्र.न.त.७.१८)। अद्वैतवाददर्शनं साङ्ख्यदर्शनं चैतदाभासत्वेन ज्ञेयम्। अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्ध्यमानत्वादिति परसङ्ग्रहाभासः॥१९६॥
एतदेवाह