________________
६६
स्याद्वादपुष्पकलिका
[मूल| स्वमत्याद्वैतभावेन साङ्ख्यनैयायिकादयः।
प्रोच्यन्ते सङ्ग्रहाभासः स्याद्वादपक्षिका बुधाः॥१९७॥ (व्याख्या) स्वमत्येत्यादि। स्पष्टम्॥१९७।। [२१९] अथापरसङ्ग्रहाभासमाह[मूल] अत्रावान्तरसामान्यं स्वीकुर्वाणा बलाज्जनाः।
विशेषं नावमन्यन्ते पारिणामिकतादयः॥१९८॥ (व्याख्या) अत्रावान्तरेत्यादि। जना मढा बलात = हठादत्रावान्तरसामान्यं स्वीकर्वाणा ये पारिणामिकत्वादयो विशेषं नावमन्यन्ते स अपरसङ्ग्रहाभासः। यथा द्रव्यत्वमेव वर्ततेऽर्थान्तरभूताणां द्रव्याणामनुपलब्धेरित्यादिः। इति (प्र.न.त.७.२२)। अयं हि द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपहृत इत्यपरसङ्ग्रहाभासनिदर्शनम्। तेनेत्थम् (तदित्थम्) अवान्तरसामान्येन जीवद्रव्यं स्वीकुर्वाणोऽपि जीवस्य भव्याभव्यसम्यक्त्वमिथ्यात्वादिभेदं नाङ्गीकुरुते इत्यर्थः। इत्यपरसङ्ग्रहाभासः॥१९८॥
व्यवहाराभासः] [२२०] अथ व्यवहाराभासविचारगाथामाह[मूल| सङ्ग्रहादृतभावानां परमार्थमजानतः। द्रव्यपर्यायभागं च योऽभिप्रेति स पञ्चमः॥१९९॥
(व्याख्या) अत्र व्यवहारस्त्वेवं तद्यथा- येनाभिसन्धिना सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं क्रियते स व्यवहार इति (प्र.न.त.७.२३)। अत्रोदाहरणं द्रव्यं धर्मादिषड्विधम्, एवं यो जीवः स मुक्तः संसारी च। यः पर्यायः स द्विविधः- क्रमभावी सहभावी चेति। क्रमभाविपर्यायः स क्रियारूपो अक्रियारूपश्चेत्यादि (प्र.न.त.अव.७.२४)। अथैतदाभासमाह- सङ्ग्रहेत्यादि। यः पुनरपरमार्थिकं द्रव्यपर्यायविभागमभिप्रेति सङ्ग्रहादृतपदार्थानां स पञ्चमो व्यवहाराभासोऽस्तीति। यः पुनः परामर्शविशेषः कल्पनारोपेण तदद्रव्य-पर्यायप्रविवेकं मन्यते सोऽत्र दर्नयव्यवहारप्रत्ययः। अत्रोदाहरणं- यथा चार्वाकदर्शनम (प्र.न.त.७.२६)। चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागकल्पनारोपितत्वेनापहृतेऽविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभास इति।।१९९॥
[ऋजुसूत्रानयाभासः] [२२१] अथ ऋजुसूत्राभासगाथामाह[मूल] वर्तमानक्षणस्थायिपर्यायमात्रमादृतः। ऋजुसूत्रनयग्राही विपरीतं वदेद्यदा॥२००॥
(व्याख्या) वर्तमानेत्यादि। अत्र प्रथमं ऋजुसूत्रविचारमाह - वर्तमानेत्यादि। ऋजुसूत्रनयग्राहको नरोऽतीतानागतं विमुच्य वर्तमानक्षणस्थायी (यि)पर्यायमात्रं यः समादृतः स ऋजुसूत्रः प्रोच्यते। अथैतदाभासमाहविपरीतमित्यादि। सर्वथा द्रव्यापलापी तदाभास इति। सर्वथा गुणप्रधानाभावप्रकारेण तदाभासः। अत्रोदाहरणम्, यथा तथागतमतम इति (प्र.न.त.७.३१)। तथागतो हि प्रतिक्षणविनश्वरान्पर्यायानेव पारमार्थिकतया समर्थयते तदाधारभूतं तु प्रत्यभिज्ञादि-प्रमाणप्रसिद्धं त्रिकालस्थायी द्रव्यं तिरस्कुरुते इत्येतन्मतं तदाभासतयोदाहतमित्यर्थः॥२०॥