________________
स्याद्वादपुष्पकलिका
६७
तदेतदेवाह[मूल] दृष्टिज्ञानकषायाणामुपयुक्तो यदा भवेत्।
ऋजुसूत्राभासकः स्यात्कालस्थोऽन्योक्तिसौगताः॥२०१॥ (व्याख्या) स्पष्टम्॥ इति ऋजुसूत्रनयाभासः॥२०१॥
[शब्दनयाभासः] [२२२॥ अथ शब्दनयाभासगाथाद्वयमाह [मूल] पर्यायैकस्य प्राग्भावस्तिरोभावान्यग्राहकः।
काललिङ्गादिभेदेन शब्दार्थः शब्दको भवेत्॥२०२॥ मूल| लिङ्गत्रिवाक्प्रत्ययाद्यैः संयुक्तार्थमुपैति यः।
___ तद्भेदेऽपि तमेवार्थं शब्दाभासस्तमादरात्॥२०३॥ (व्याख्या) पर्यायेत्यादि। पर्यायैकस्य प्राग्भावेन अन्येषां तिरोभावेन ग्राहक इति यः पर्यायग्राहकः स शब्दनयः। कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः। (प्र.न.त.७.३२)। कालादिभेदेन = कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गभेदेन। अत्रोदाहरणं- यथा बभूव भवति भविष्यति सुरगिरिरित्यादिः इति (प्र.न.त.७.३३)। अत्रातीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते, द्रव्यरूपतया पुनरभेदमप्युपेक्षते। एतच्च कालभेदे उदाहरणम्। करोति क्रियते कुम्भ इति कारकभेदे। तटस्तटी तटमिति लिङ्गभेदे। दाराः कलत्रमित्यादि सङ्ख्याभेदे। एहि मन्ये रथेन यास्यसि न हि यास्यति, यातस्ते पितेति पुरुषभेदे। सन्तिष्ठते अवतिष्ठते इत्युपसर्गभेदे इति। अथैतदाभासमाह- लिङ्गत्रिवागित्यादि। तद्भेदेऽपि तदेवार्थसमादरणरूप: शब्दाभासः। [तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः(प्र.न.त.७.३४) ] तद्भेदेन = कालादिभेदेन ध्वनेस्तमेव = अर्थभेदमेव, शब्दाभासः (प्र.न.त.अव. ७.३४)। अत्रोदाहरणं- यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृग्सिद्धान्यशब्दवदित्यादिः (प्र.न.त.७.३५) इति। अनेन हि तथाविधपरामर्शस्थेन वचनेन कालादिभेदाद्भिन्नस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम्, एतच्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम्। अन्येऽपि करोति क्रियते कट इत्यादयः शब्दनयाभासे बहून्युदाहरणानि भवन्ति॥ इति शब्दनयाभासः॥२०२॥२०३॥
[समभिरूढनयाभासः] [२२३॥ अथ समभिरूढाभासस्वरूपविचारगाथामाह [मूल| यः पर्यायध्वनीनां च यावन्माना (अ)भिधेयकाः।
तन्नानात्वं स्वीकुर्वाणो रूढाभासः स उच्यते॥२०४॥ (व्याख्या) अत्र समभिरूढः पर्यायशब्दानां यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहन्नभिप्रायविशेषः समभिरूढः तथान्येष्वपि घटकुम्भादिषु द्रष्टव्यः (प्र.न.त.अव.७.३७)। अथैतदाभासमाह- यः पर्यायेत्यादि। पर्यायध्वनीनां यावन्माना अभिधेयका भवन्ति तेषामभिधेयानां नानात्वमेव स्वीकुर्वाणः = कक्षीकुर्वाणो रूढाभासः