________________
८
स्याद्वादपुष्पकलिका
स उच्यते = निगद्यते इत्यर्थः। अत्रोदाहरणं- यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव भिन्नशब्दत्वात्करिमृगतुरगशब्दवदित्यादिः (प्र.न.त.७.३९) इति समभिरूढाभासः॥२०४॥
[एवम्भूतनयाभासः] [२२४] अथैवम्भूताभासस्वरूपविचारगाथामाह[मूल] पदार्थानां नामभेदं प्रेक्ष्य भिन्नार्थको वदेत्। एवम्भूताभासकः स प्रोच्यते जिनशासने॥२०५॥
(व्याख्या) एवम्भूतस्तु पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते। न हि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वाद्। गच्छतीति गौराशुगामित्वादश्व इति। शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव। शुचिभवनात्शुक्लो नीलनान्नील इति। देवदत्तो यज्ञदत्त इति यदृच्छाभिमता अपि क्रियाशब्दा एव - देव एनं देयाद, यज्ञ एनं देयादिति। संयोगिद्रव्यशब्दाः समवायिद्रव्य-शब्दाश्चाभिमताः क्रियाशब्दा एव, दण्डोऽस्यास्तीति दण्डी; विषाणमस्यास्तीति विषाणीति अस्तिक्रियाप्रधानत्वात्। पञ्च नया(भेदाः) तु शब्दानां व्यवहारमात्रान्न निश्चयादित्ययं नयः स्वीकुरुते।
____ अत्रोदाहरणं- यथेन्दनमनुभवन्निन्द्रः शकनक्रिया-परिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते (प्र.न.त.७.४१) इति। अथैवम्भूताभासमाह- पदार्थानामित्यादि। क्रियाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपँस्तु तदाभासः (प्र.न.त.७.४२) इति। क्रियाविष्टं वस्तु ध्वनिनाभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत् तेषां तथाक्षिपति न तूपेक्षते स एवम्भूतनयाभास (प्र.न.त.अव.७.४२) इति प्रतीतिघातान्नोदाहरन्ति। अत्रोदाहरणंयथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्पटवदित्यादिः (प्र.न.त.७.४३) इति। अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते, स च प्रमाणबाधित इति(प्र.न.त.अव.७.४३) तद्वचनमेवम्भूतनयाभासोदाहरणतयोक्तं जिनशासने इत्यर्थः॥ इत्येवम्भूताभासः।।२०५॥
[शब्दार्थनयाभासौ] [२२५] अथान्यमपि बालबोधाय नयाभासमाह [मूल] शब्दक्षेप्यर्थाभिधायी वदेदर्थनयस्तथा। शब्दाभिधाय्यर्थक्षेपी शब्दाभास स उच्यते॥२०६॥
(व्याख्या) शब्देत्यादि। विशिष्टचेष्टारहितं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिवृत्तिभूतक्रिया-शून्यत्वात् पटवदित्यादि इति (प्र.न.त.७.४३)। अतोऽर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासो वदेदित्यर्थः। एवं शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभास स उच्यत इति।।२०६॥
[अर्पितानर्पितनयाभासौ [२२६] अथार्पितानर्पिताभासमाह[मूल] अर्पितानर्पिताभासावन्योन्यं प्रतिक्षेपतः।
तत्त्वव्यवहारयोः क्षेपात्स्युर्व्यवहारविनिश्चयौ॥२०७॥