________________
स्याद्वादपुष्पकलिका
(व्याख्या) अर्पितेत्यादि। अन्योन्यं प्रतिक्षेपेन अर्पितमनर्पितं च प्रतिक्षेपेन क्रमादर्पितानर्पिताभासौ स्याताम् इति। अनर्पितं प्रतिक्षिपन्नर्पितमभिदधानोऽर्पितनयाभासः। तथैवार्पित प्रतिक्षिपन्ननर्पितमभिदधा-नोनर्पितनयाभासोऽस्ति। व्यवहारेत्यादि। तथा तत्त्वव्यवहारयोः क्षेपाद् व्यवहाराभासनिश्चयाभासौ स्यातामित्यर्थः। तथाहि तत्त्वप्रतिक्षेपी लोकव्यवहारमभिदधानो व्यवहाराभासः। तथा तत्त्वमभ्युपगच्छन् व्यवहारप्रतिक्षेपी निश्चयाभासः॥२०७॥
[ज्ञानाभासक्रियाभासौ| [२२७] अथ ज्ञानाभासक्रियाभासयोः स्वरूपमाह[मूल| ज्ञानं गृह्णन्क्रियाक्षेपाज्ज्ञानाभासो निगद्यते।
ज्ञानक्षेपात्क्रियां गच्छन्क्रियाभासो वदेद् बुधः॥२०८॥ (व्याख्या) ज्ञानमित्यादि। क्रियां प्रतिक्षिप्य ज्ञानमभिदधानो ज्ञाननयाभासः। ज्ञानक्षेपेत्यादि। तथा ज्ञानं प्रतिक्षिप्य क्रियामभिदधन् क्रियाभासो बुधो वदेदित्यादि बोध्यमिति॥२०८॥
[नयानां परस्परं प्रभूताल्पविषयविचारः] [२२८] अथात्र नयानां परस्परं प्रभूताल्पविषयविचारगाथामाह[मूल] नैगमादिसप्तनया: पूर्वानुपूर्वयोगतः। पूर्वः प्रभूतविषयः परोऽल्पविषयो भवेत्॥२०९॥
(व्याख्या) नैगमेत्यादि। अत्र नैगमः प्रभूतविषयोऽस्ति सङ्कल्पजन्यसदृशसद्भावग्राहकत्वादथवा सामान्यविशेषसङ्ग्राहकत्वादिति। ततः सङ्ग्रहोऽल्पविषयः सत्तामात्रग्राहकत्वादिति। अथवा परिमितविषयात् सन्मात्रगोचरसङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् भूरिविषयोऽस्ति। तथा सङ्ग्रहनयः सत्तागतसामान्यविशेषग्राहकोऽस्ति। ततो व्यवहारोऽल्पविषयोऽस्ति सद्विशेषग्राहकत्वादिति। तथा ऋजुसूत्राद् व्यवहारस्त्रिकालविषयत्वाद्बहुविषयोऽस्ति, कालादिभेदेन भिन्नार्थप्रदर्शनादिति। ऋजुसूत्रस्ततोऽल्पविषयोऽस्ति वर्तमानविशेषधर्मग्राहकत्वादिति। तथा शब्दादृजुसूत्रः कालादिवचनलिङ्गविषयाद्बहुविषयस्ततः शब्दोऽल्पविषयोऽस्ति, समग्रपर्यायानामेकपर्यायग्राहकत्वादिति। धर्मव्यक्तवाचकग्राहकत्वेन शब्दतः समभिरूढोऽल्पविषयः। पर्यायकालमभिवाञ्छतः समभिरूढाच्छब्दो बहुविषयोऽस्ति। एवम् एवम्भूतात्समभिरूढः प्रभूतविषयोऽस्ति प्रतिक्रियां भिन्नार्थप्रतिजाननात् तदेवम्भूतात्समभिरूढोऽल्पविषयः॥२०९॥
[२२९] इत्थं नयवचनमपि निजविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति इति (प्र.न.त.७/५३)। केन हेतुना ? इत्याह[मूल] अंशग्राही नैगमोऽस्ति सत्ताग्राहकः सङ्ग्रहः।
गुणलोकप्रवृत्त्योर्यो ग्राही स्याद् व्यवहारकः॥२१०॥ [मूल] ऋजुसूत्रो भवेद्धेतुपरिणामसमादृतः। व्यक्तकार्यग्राहकः स्याच्छब्दो भावप्रवृत्तिकः॥२११॥ [मूल] पर्यायान्तरको भिन्नकार्यग्राही च षष्ठमः। तद्गतमुख्यकार्यस्य ग्राह्येवम्भूतको भवेत्॥२१२॥ [मूल] इत्याद्यनेकसद्रूपो नयवादो जिनागमे। विधानप्रतिषेधाभ्यां सप्तभङ्ग्यो भवन्ति च॥२१३॥