SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका (व्याख्या) एते(ताः) चत्वारोऽप्यनुष्टुपः स्पष्टत्वेन न व्याख्याता अत्रेति ॥२१०॥२११॥२१२॥२१३॥ [२३०] अथ नयविचारसमाप्तिरूपगाथामाह[मूल] इत्थं नयविचारश्च समासेन प्ररूपितः। लोके समग्रभावेषु भवेत्स्याद्वादशासने॥२१४॥ (व्याख्या) इत्थमित्यादि। इत्थम् = एवं नयविचारः समासेन = सङ्क्षपेण प्ररूपितः = कथितः। कथमित्याह- लोक इत्यादि। लोके = चतुर्दशरज्ज्वात्मके समग्रभावेषु = पदार्थेषु स्याद्वादशासने नयप्रवादो भवेदित्यर्थः ॥२१४॥ इति नयाः॥ [सप्तमं प्रमाणद्वारम्] [२३१] अथ लक्षणसङ्ख्यागाथायां नयानि चेति शब्दोऽस्ति। अत्र चकारात्सप्तमप्रमाणद्वारगाथामाह[मूल] तत्प्रत्यक्षपरोक्षाभ्यां प्रमाणं द्विविधं स्मृतम्। अतीन्द्रियं च प्रत्यक्षमक्षजन्यं परं भवेत्॥२१५॥ (व्याख्या) तत्प्रत्यक्षेत्यादि। तत्प्रमाणं प्रत्यक्षपरोक्षाभ्यां द्विविधं स्मृतं = कथितमिति। तत्रानिन्द्रियज्ञानं प्रत्यक्षम्। अक्षजन्यमिति। इन्द्रियप्रवृत्तिजन्यं ज्ञानं परोक्षं भवेदित्यन्वयः। अतोऽक्षप्रवृत्तिं विनैव आवरणक्षयोपशमेन निजात्मोपयोगतो यज्ज्ञानं स्यात्तदाद्यमित्यर्थः। तद्भिन्नं परोक्षमिति॥२१५॥ [प्रत्यक्षज्ञानभेदाः] [२३२] अथ प्रत्यक्षज्ञानभेदमाह[मूल] तत्र देशसमग्राभ्यां प्रत्यक्षं द्विविधं श्रुतौ। देशाववधिपर्यायौ समग्रं केवलं भवेत्॥२१६॥ (व्याख्या) तत्र देशेत्यादि। तत्र प्रत्यक्षप्रमाणं द्विविधं- देशतः समग्रतश्चेति। श्रुतौ = सिद्धान्तेऽस्ति देशप्रत्यक्षं पुनर्द्विविधम्- अवधिज्ञानं मनःपर्यायज्ञानं चेति। तत्रावधिज्ञानमसङ्ख्यातविधं भवति। तत्रावधिज्ञानिनः पुमांसो द्रव्यक्षेत्रकालभावापेक्षया लोके बहवः पर्यायान् पश्यन्तोऽपि कियत्पर्यायाः पश्यन्ति कियन्नेति, अतो देशप्रत्यक्षं भवति। मनःपर्यायज्ञानं तु सार्द्धद्वयद्वीपसमुद्रगतजीवानां मनोगतपर्यायान् जानाति परं समग्रलोकालोकप्रमाणं न जानाति, अतो देशप्रत्यक्षमस्तीति। समग्रप्रत्यक्षं तु केवलज्ञानं भवेदिति। एतच्च लोकालोकगतसर्वद्रव्यगुणपर्यायान् करतलामकमिव जानातीत्यर्थः, केवलान्वयित्वादिति। इति प्रत्यक्षम्॥२१६॥ [परोक्षज्ञानभेदाः] [२३३] अथ परोक्षप्रमाणभेदविचारगाथामाह[मूल] मतिश्रुताभिधानेन परोक्षं द्विविधं स्मृतम्। अनुमानोपमानागमार्थापत्त्यब्धयो भवेत्॥२१७॥ १. सदेहजीवः प्रथमेऽपरोऽसङ्ख्यप्रदेशकः। चिन्तनव्यवहारश्च ऋजुसूत्रोपयोगकः॥ शब्दश्चतुर्विधो जीव: गुणयुक्तोऽभिरूढकः। गुणानन्तात्मको जीव एवम्भूतो निगद्यते॥युग्मम्॥ नैगमः सर्वधर्मोऽस्ति सङ्ग्रहः पूर्वजादृतः। व्यवहारः शुद्धहेतुः वैराग्यपरिणामकः॥ सद्दर्शन: शब्दनयः निजसिद्धोऽभिरूढकः। रूपातीतपरिणामा एवम्भूतो वदेत् खलु॥ सर्वजीवः सिद्धसमः सत्तासिद्धः सुसङ्ग्रहः। लब्धिसिद्धादिभिः सिद्धिः ऋजुसूत्रोपयोगकः॥ शुभशुक्लध्यानशब्दः दर्शनज्ञानषष्ठमः। सिद्धस्थितः सिद्धभावो एवम्भूतो गदेद् ध्रुवम्॥युग्मम्।। इतने श्लोक ला. प्रत में अधिक है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy