________________
स्याद्वादपुष्पकलिका
७१
(व्याख्या) मतिश्रुतेत्यादि। परोक्षप्रमाणं द्विविधं भवति मतिज्ञानं श्रुतज्ञानं चेति। ततः तत् परोक्षं चतुर्विधं विद्यते। तद्यथा- अनुमानप्रमाण-उपमानप्रमाण-आगमप्रमाण-अर्थापत्तिप्रमाणानि भवन्तीति॥२१७॥
[अनुमानप्रमाणलक्षणम्। [२३४] अथानुमानप्रमाणलक्षणमाह[मूल] लिङ्गपरामर्शकं स्यादनुमानप्रमाणकम्।
गिरौ धूमाङ्कमादृत्य साध्यतेऽसौ कृशानुमान्॥२१८॥ (व्याख्या) लिङ्गेत्यादि। लिङ्गपरामर्शस्मृत्युद्भवं चिह्नमादृत्य यज्ज्ञानं तदनुमानप्रमाणं स्यादिति। लिङ्गस्याविनाभूतवस्तुकं नियतं ज्ञेयमिति। अत्र दृष्टान्तमाह-गिरावित्यादि। यथा कश्चिन्नरो दूराद्गिरौ व्योमावलम्बिधूमरेखं सम्पश्यानुमानं करोति नगोऽयं वह्निमान्धूमवत्त्वाद्यत्र धूमस्तत्राग्निः महानसादिवदिति। इत्थं पञ्चावयवशुद्धम् अनुमानं यथार्थज्ञानहेतुसाम्यावलम्बनेन पदार्थानां यज्ज्ञानं तदिति॥२१८॥
[उपमानप्रमाणलक्षणम्। [२३५] अथोपमानप्रमाणगाथामाह[मूल] गोसादृश्यत्वभावेन अदृष्टगवयाकृतिः। ज्ञानं स्याद्गवयं प्रेक्ष्य भवेत्तदुपमानकम्॥२१९॥
(व्याख्या) गोसादृश्येत्यादि। 'यथा गोस्तथा गवयः' अदृष्टगवयाकृतिः गवयं प्रेक्ष्य गोसादृश्यभावं स्मृत्वा गवय इति ज्ञानं यस्य स्यात्तदुपमानप्रमाणकं भवेदित्यर्थः।।२१९॥
[आगमप्रमाणलक्षणम्
[२३६] अथागमप्रमाणविचारमाह[मूल] यथार्थवस्तुभावज्ञो वीतरागो जिनेश्वरः। तदुक्ताः सकला वाचः स्यादागमप्रमाणकम्॥२२०॥
(व्याख्या) यथार्थेत्यादि। यथार्थं चेदं वस्तु च यथार्थवस्तु, तेषां यथार्थवस्तूनां भावं जानातीति यथार्थवस्तुभावज्ञः, वीतरागो विशेषेण इतो = गतो रागो द्वेषश्च यस्य स वीतरागो जिनेश्वर इति। जिनानां = सामान्यकेवलीनामीश्वरो जिनेश्वरः। समवसरणस्थसभायामुपदेशरूपं समग्रं वचनम् आगम प्रमाणं स्यादित्यर्थः। तदनुयायिचतुर्दशदशपूर्वधरप्रत्येकबुद्धादिनिर्मितशास्त्रमप्यागमप्रमाणमिति। उक्तं च
सुत्तं गणहररइयं तहेव पत्तेयबुद्धिणा रइयं। सुयकेवलिणा रइयं अभिन्नदसपुव्विणा रइयं॥ इति॥२२०॥
[अर्थापत्तिप्रमाणलक्षणम्] [२३७] अथार्थापत्तिप्रमाणगाथामाह[मूल] यथा पीनो देवदत्तो वासरे तु न भुज्यते। अर्थान्नक्ताशनो ज्ञातस्तदर्थापत्तिकं भवेत्॥२२१॥
(व्याख्या) यथेत्यादि। यथेति दृष्टान्तः पीनो देवदत्तः दिवसे तु न भुज्यते। अर्थादित्यादि। अनेनार्थाद्रात्रौ भोजनमागतमिति ज्ञातम्। एतदेवार्थापत्तिप्रमाणं चतुर्थं भवेदित्यर्थः॥२२१॥