________________
७२
स्याद्वादपुष्पकलिका
[ज्ञानफलम्] [२३८] अर्थतज्ज्ञानफलमाह[मूल] नयप्रमाणकादीनां परिपाटीमुपेत्य यत्। जीवाजीवादिभावज्ञः तज्जैस्तज्ज्ञानमुच्यते॥२२२॥
(व्याख्या) नयप्रमाणकादीनां परिपाटी = व्यवस्थामङ्गीकृत्य जीवाजीवादितत्त्वानां यथार्थं भावं जानाति = प्ररूपयति तद् ज्ञानमिति। न तु मनःकल्पनीयनैयायिकसाङ्ख्यकादिप्रोक्तं ज्ञानमिति। नयप्रमाणादि इत्यत्रादिशब्देन निक्षेपसप्तभङ्गी बोद्धव्येति॥२२२॥
[दर्शनचारित्रयोः विचारः] [२३९] अथ दर्शनविचारगाथामाह[मूल] जिनोक्ततत्त्वश्रद्धानं तत् सम्यग्दर्शनं वदेत्। यथार्थहेयोपादेयैः स्वरूपरमणात्मकम्॥२२३॥ [मूल] परसङ्गत्यागपूर्वं निजात्मरमणात्मकम्। संयम साधनादेतत् सिद्धिर्भवति नान्यथा॥२२४॥
(व्याख्या) जिनोक्तेत्यादि। यस्य यथार्थहेयोपादेयैः = कृत्याकृत्यहेयोपादेयैर्यथार्थतया जिनोक्ततत्त्वार्थश्रद्धानं तत् सम्यग्दर्शनं वदेदिति। तदुक्तमुत्तराध्ययने
जीवाजीवा य बंधो य पुन्नं पावासवो तहा। संवरो निज्जरा मुक्खो संतेए तहिया नव॥
तहियाणं तु भावाणं सब्भावउवएसणं। भावेण सद्दहंतस्स सम्मत्तं तं वियाहियं॥ (उ.सू.२८.१४,१५) इति दर्शनम्।
तथा परपरिणतिपरित्यागपूर्वकं विमलनिजपरिणतिपरिणमनात्मकं चारित्रमिति ज्ञेयम्। एतद्रत्नत्रयसाधनात्सिद्धिर्भवति॥२२३॥२२४॥
[प्रमाणस्य लक्षणम्] [२४०] [मूल] स्वपरव्यवसायि ज्ञानं प्रमाणं वदेच्छ्रतौ। इष्टान्यवस्तुविज्ञानस्वीकारान्यक्षम तथा॥२२५॥
(व्याख्या) स्वपरेत्यादि। तत्र स्वम् = आत्मा ज्ञानस्य स्वरूपम्, परः स्वस्मादन्योऽर्थ इति यावत्। विशेषेणतौ यथाव्यवस्थितस्वरूपेण व्यवस्यति = निश्चिनोतीत्येवं शीलं यत्तत्स्वपरव्यवसायि। ज्ञायते = प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम्। एतद्विशेषणमज्ञानरूपव्यवहारधुराधौरेयतामनादधानस्य स्वसमयप्रसिद्धदर्शनस्य, सन्निकर्षादेश्चाचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यनिराकरणार्थम्। तस्यापि च तथा प्रत्यक्षरूपस्य शाक्यैर्निर्विकल्पतया प्रामाण्येन जल्पितस्य, संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थं व्यवसायीति। परोक्षबुद्ध्यादिवादिमीमांसकादीनां बाह्यार्थापलापिनां ज्ञानाद्यद्वैतवादिनां च दुर्नयपक्षबलनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तमिति। (प्र.न.त.अव. )श्रुतौ = प्रवचने वदेदित्यर्थः। अत्रैव ज्ञानमिति विशेषणं समर्थयन्नाह- इष्टानिष्टवस्तुविज्ञानस्वीकारतिरस्कारक्षम प्रमाणं तथेति वदेदित्यर्थः। अनेन अभिमता-नभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणमतो ज्ञानमेवेदम् (प्र.न.त.१.३) इत्याशयः। इष्टम् = अभिमतमुपादेयम्, अनिष्टम् = अनभिमतं हेयम्। तद्वयमपि द्वेधामुख्यं गौणं च। तत्र मुख्यं सुखं दुःखं च। गौणं पुनस्तयोः कारणं कुसुमकुङ्कुमकामिनीकटाक्षादिकम्, खल-कलह
१. यह श्लोकः सं. प्रत में नहीं है।