________________
स्याद्वादपुष्पकलिका
७३
कालकूट-कण्टकादिकं च। एवंविधयोरभिमतानभिमतवस्तुनोः यौ स्वीकारतिरस्कारौ = प्राप्तिपरिहारौ तयोः क्षमं = समर्थं प्रापकं परिहारकं चेत्यर्थः। अनयोरुपलक्षणत्वादेत-दुभया-भावस्वभाव उपेक्षणीयोऽप्यत्रार्थे लक्षयितव्यः। खलु रागगोचरोऽभिमतो द्वेषविषयोऽनभिमतो रागद्वेषद्वितयानालम्बनं तु तृणादिरुपेक्षणीयस्तस्य चोपेक्षकं प्रमाणं तदुपेक्षायां समर्थमित्यर्थः। यस्मादभिमतानभिमतवस्तुस्वीकार-तिरस्कारक्षम प्रमाणमत इदं ज्ञानमेव भवितुमर्हति, नाज्ञानरूपमिति-(प्र.न.त.अव.)॥२२५॥
[२४१ अथ प्रमाणार्थे विचारगाथामाह[मूल] सर्वनयस्वरूपस्य ग्राहकं यत्प्रमाणकम्। पारिणामिकभावेन प्रमाता चेतनो भवेत्॥२२६॥
(व्याख्या) सर्वनयेत्यादि। अत्र यत्समग्रं नयस्वरूपस्य ग्राहकं तत्प्रमाणमिति। तत्र सर्वप्रमेयप्रमाता प्रत्यक्षादि-प्रमाणसंसिद्धः पारिणामिकभावेन चैतन्यस्वरूपोऽस्ति। उत्पादव्यययोः परिणमनरूपत्वात् यः कर्ता स एव भोक्ता, यो भोक्ता स एव कर्तास्तीति॥२२६॥
|जीवस्य रत्नत्रयसाधनस्वरूपम्
[२४२] अथ जीवस्य रत्नत्रयसाधनस्वरूपमाह[मूल] स्वदेहमानमात्रोऽस्ति क्षेत्रं प्रति विभिन्नतः। रत्नत्रयसाधनेन जीवः सिद्धिं समश्नुते॥२२७॥
(व्याख्या) स्वदेहेत्यादि। जीवो भवे स्वदेहपरिमाणमात्रोऽस्ति। भाजनान्तरलघुभाजनस्थप्रदीपप्रकाशवदिति। क्षेत्रमित्यादि। क्षेत्रं प्रतिदेहं प्रतिभिन्नस्वभावतः पञ्चकारणसामग्रीयोगतो ज्ञानादिरत्नत्रयधनेन जीवस्य सिद्धिर्निष्पद्यते इति। तथा विमलाविनाशिनिष्कलङ्कस्वगुणनिरावरणनिजकार्यप्रवृत्त्यव्याबाधसुखान्वितसिद्धिनिष्पद्यते इति॥२२७॥ इति प्रमाणद्वारम्॥
[अष्टम भावद्वारम्
[२४३] अथ भावद्वारमाह[मूल] धर्माधर्माभ्रकालेषु भावोऽस्ति पारिणामिकः। भावोदयपरिणामौ नयनौ पुद्गले भवेत्॥२२८॥
(व्याख्या) धर्मेत्यादि। द्रव्येषु जीवं विमुच्य धर्मादिचतुष्केषु पारिणामिकभावोऽस्ति। पुद्गले {नयनौ = }द्वौ भावौ उदयपरिणामाभिधौ भवेदि(भवतः इ)त्यर्थः।।
[पुद्गलेषु भावाः] [२४४] अथ पुद्गलेषु भावानाह[मूल| पुद्गले च परिणामः स्कन्धेष्वादिस्वभावतः।
तथाविहायोपशमं भावाः स्युर्विघ्नावरणेऽब्धयः॥२२९॥ (व्याख्या) पुद्गलेत्यादि। पुद्गले परिणामोदयौ भवतः। तत्र व्यणुकादिस्कन्धेषु सादिकालत्व स्वभावेन परिणमनात्पारिणामिकत्वं, तथा सुरशैलादौ पुद्गलस्कन्धानामनादिकालस्वभावत्वेन परिणमनादिपारिणामिकत्व
१. यहां पर भवतः पुद्गले भावी ह्यदयपरिणामकौ/परिणामोदयात्मको पाठ अधिक संगत प्रतीत होता है।