________________
७४
स्याद्वादपुष्पकलिका
मित्यर्थः। तथा येऽनन्तपरमाण्वात्मकाः स्कन्धास्ते पारिणामिकभावे औदयिकभावे च प्रवर्तन्ते। कथमेवम्? उच्यते, जीवेष्वनन्तप्रदेशस्कन्धानाम् कर्मरूपतयोदयात्तथा शरीरादीनामुदयजनितौदारकादि-शरीरतया औदारकादीनां स्कन्धानामुदयः। केवलाणवस्तु पारिणामिके एव भवन्ति। जीवस्य केवलानामणूनां ग्रहणाभावान्नौदयिक भाव इति। तथेति। तथाशब्देन कर्माष्टकग्रहणमिति, आवरणादयः पुद्गल(लानामुदय)भावेन गृहीतत्वादिति तेन। अथ तेषु भावविचारमाह- विहायेत्यादि। विघ्नावरणेषु ज्ञानावरणदर्शनावरणान्तरायेषु उपशमं विहाय अब्धयः = चत्वारो भावाः क्षायिक-मिश्र-औदयिक-पारिणामिकलक्षणाः स्युरित्यर्थः। तत्रापि केवलज्ञानावरणकेवलदर्शनावरणयोर्विपाकोदयविपक्षभावतः क्षायोपशमसम्भव इति॥२२९॥
[मोहनीयादिषु भावविचारः] [२४५] अथ मोहनीयादिषु भावविचारगाथामाह[मूल] नामगोत्रायुर्वेदेषु त्यक्तोपशममिश्रकम्। त्रयो भावाः पञ्च मोहे भवन्ति जिनशासने॥२३०॥
(व्याख्या) नामेत्यादि। नामगोत्र-आयुर्वेदनीयकर्मचतुष्केषु उपशममिश्रकं विमुच्य क्षायिक-औदयिकपारिणामिक-लक्षणा त्रयो भावा भवन्तीत्यर्थः। पञ्चेत्यादि। मोहे पञ्च भावा भवन्तीति। जिनमते इत्यर्थः॥२३०॥
गतिमाश्रित्य भावाविचारः।
[२४६] अथ गतिमाश्रित्य भावानाह[मूल] गतिष्वपि पञ्च पञ्च भावाः सन्ति शिवालये।
परिणामक्षायिकौ स्तो भावद्वारं निरूपितम्॥२३१॥ (व्याख्या) गतीत्यादि। अपिः = निश्चयेन। मनुजादिचतुर्ता गतिषु पञ्च पञ्च भावा भवन्ति। कथम्? उच्यते, औपशमिकं सम्यक्त्वम्, क्षायिकं सम्यक्त्वम्, क्षयोपशमिकानीन्द्रियाणि, औदयिको गत्यादिः पारिणामिको जीवत्वादिरिति भवन्ति। तथा शिवालये इति। सिद्धगतौ परिणामिकक्षायिकौ भावौ स्तः। तत्र क्षायिको ज्ञानादिः, पारिणामिकं जीवत्वमिति भवतः। इति मूलभावद्वारं निरूपितम्॥२३१॥
जीवद्रव्ये भावविचारः]
[२४७] अथ जीवद्रव्ये भावविचारगाथामाह[मूल| गतिस्थितेषु जीवेषु सर्वे भावा भवन्ति च। परिणाम क्षायिकौस्तो जीवेषु मोक्षपत्तने॥२३२॥ (व्याख्या) स्पष्टम्।। इति षड्द्रव्येषु औपशमिकादयो मूलषड्भावाः प्रोक्ताः॥२३२॥
[चतुर्दशगुणस्थानकेषु भावविचारः] [२४८] अथात्रोत्तरभावानां प्रबोधाय जीवपरिणमितभावस्वरूपप्रदर्शनाय चतुर्दशगुणस्थानकगाथाद्वयमाह[मूल| मिथ्यासास्वादनमिश्राव्रतदेशव्रताभिधाः।
प्रमत्तान्यौ निवृत्त्यन्यौ सूक्ष्मोपशमक्षीणकाः॥२३३॥