________________
स्याद्वादपुष्पकलिका
७५
[मूल] गुणाः सयोग्ययोगी च भवन्ति जिनशासने।
लोके भवस्थजीवस्य परिणामविशेषकाः॥२३४॥युग्मम्॥ (व्याख्या) मिथ्येत्यादि गाथायुगलम्। लोके भवस्थजीवस्य परिणामविशेषका जिनशासने गुणाः = गुणस्थानका भवन्तीति। तथाहि- मिथ्यात्व-सास्वादन-मिश्र-अविरति-देशविरति-प्रमत्त-अप्रमत्त-निवृत्तिबादरअनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशमसम्पराय-क्षीणमोह-सयोगि-अयोगिन एते गुणस्थानका भवन्तीत्यर्थः। अथात्र भावोत्तर-त्रिपञ्चाशद्भेदास्तु द्वारगाथायां पूर्वोक्ता एव भवन्ति। तथाहि- उपशम-क्षायिक-क्षायोपशम-उदय-पारिणामिकाः सर्वे-५३॥२३३॥२३४॥
उपशम
क्षायिक
मिश्र
औदयिक ।
पारिणामिक | सान्निपातिक
३ सर्वे ५३
१८
२१
[२४९] अथ जीवेषु गुणस्थानमादृत्य भावप्ररूपकगाथाद्विकमाह[मूल] मिश्रोदयपरिणामा भावाः सन्ति गुणत्रिके। तथा व्रतादीभगुणे पञ्च भावा भवन्ति च॥२३५॥ [मूल| क्षीणे भवन्ति चत्वारो विमुच्योपशमं तथा। विहाय मिश्रोपशमं त्रयो भावान्त्यके द्विवे॥२३६॥
(व्याख्या) मिश्रेत्यादि। मिश्रश्चोदयश्च परिणामश्चेति द्वन्द्वः। क्षायोपशमिकोदयपरिणामिकलक्षणाः त्रयो भावा गुणत्रिके इति। प्रथममिथ्यात्वादित्रिकगुणस्थानकेषु जीवस्य भवन्ति। तत्र क्षायोपशमिकानीन्द्रियाणि, औदयिकी गतिः, पारिणामिकं जीवत्वमिति। तथेत्यादि। ततः अव्रतादीभगुणेत्यादि। अविरताद्युपशमान्ताष्टगुणस्थानकेषु उपशमादयः पञ्च पञ्च भावा भवन्ति। कथम्? औपशमिकसम्यक्त्वमविरताद्यष्टगुणान्तं यावल्लभ्यते, क्षायिकसम्यक्त्वमविरतादिगुणैकादशं यावत्प्राप्यते, क्षायोपशमिकानीन्द्रियाणि सम्यक्त्वाद्यविरतादिप्रमुखं गुणेषु चतुष्केषु प्राप्यते। ततोऽग्रे तु अपूर्वानिवृत्ति-बादरसूक्ष्मसम्परायोपशान्तेषु क्षायोपशमिकानीन्द्रियादीनि भवन्ति, न तु क्षायोपशमिकं सम्यक्त्वमिति। औदयिकी गतिः पारिणामिकं जीवत्वमिति। चः पादपूरणे॥ क्षीणेत्यादि। तथोपशमिकं सम्यक्त्वं विमुच्य। क्षीणेति। क्षीणमोह-द्वादशम-गुणस्थानके क्षायोपशमिकादयश्चत्वारो भावा भवन्ति। तत्र क्षायोपशमिकानीन्द्रियादीनि, औदयिकी गतिः, पारिणामिकं जीवत्वं, क्षायिकं सम्यक्त्वं चेति। विहायेत्यादि। अन्त्यद्विके सयोग्य
नकद्विके मिश्रोपशमेति। क्षायोपशमोपशमं विहाय = परित्यज्य त्रयो भावा इति। क्षायिकोदयपारिणामिकलक्षणा(णि?) त्रयो भावा लभ्यन्ते इति, कथम्? उच्यते, क्षायिकं केवलज्ञानादि, औदयिकी गतिः, पारिणामिकं जीवत्वमिति। स्थापना चेयम
4
गुण
दे
नि
उ
|
|
|
३
3
मूलभाव
m
Mm
m
इति चतुर्दशगुणस्थानकेषु मूलभावाः प्रोक्ताः॥२३५॥२३६॥