________________
७६
[चतुर्दशगुणस्थानकेषु क्षयोपशमभावविचारः]
[२५०] अथ जीवेषु भावोत्तरद्वारविचारगाथामाह–
[मूल] मिथ्यासास्वादने सन्ति दिग्भेदा मिश्रकस्य च । चक्ष्वचक्ष्वज्ञानत्रिकं दानादिशरलब्धयः ॥ २३७॥
(व्याख्या) मिथ्येत्यादि। मिथ्यासास्वादनगुणस्थानद्विके मिश्रकस्य अज्ञानत्रिक-दानादिपञ्चलब्धयो दशभेदाः सन्तीत्यन्वयार्थः॥२३७॥
॥२३८॥
=
स्याद्वादपुष्पकलिका
क्षयोपशमभावस्य चक्षुः-अचक्षुः
[२५१] अथ तृतीयतूर्यगुणयोः भावोत्तरद्वारगाथामाह–
[मूल] मिश्रे स्युर्मिश्रसम्यक्त्वं दर्शनज्ञानगुप्तिकम्। दानादिलब्धयः पञ्च तूर्येऽपि द्वादशस्तथा॥२३८॥ (व्याख्या) मिश्रे स्युरित्यादि। मिश्रे = मिश्रगुणे सम्यग्मिथ्यादृष्टौ मिश्रसम्यक्त्वम्। दर्शनेत्यादि। चक्षुःअचक्षुः-अवधिदर्शनत्रयम्, तथा ज्ञानत्रयम्, दानादिलब्धिपञ्चकं इत्येवंलक्षणा द्वादश स्युः। अत्र ज्ञानाज्ञानान्यतरांशबाहुल्यमुभयांशमतो वा स्याद् । अत्र ज्ञानबाहुल्यविवक्षया ज्ञानत्रयमुक्तम् । अत्र गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षया। तथा तूर्ये अविरतगुणे मिश्रं विमुच्य क्षायोपशमसम्यक्त्वक्षेपेण द्वादश भावाः स्युरित्यर्थः
[२५२] अथ पञ्चमादिगुणस्थानत्रिके भावप्ररूपकगाथामाह
[मूल] व्रतद्वादशक्षेपेण पञ्चमे स्युस्त्रयोदश । चतुर्दश पर्ययेन षष्ठमे सप्तमे गुणे ॥ २३९॥
(व्याख्या) व्रतेत्यादि। पञ्चमे देशविरतिगुणस्थाने द्वादशविरतिक्षेपेण क्षायोपशमिकभावास्त्रयोदश स्युरिति। तथा षष्ठमसप्तमगुणस्थानके पर्ययेन = मनःपर्यायज्ञानक्षेपेन चतुर्दश भावाः स्युरिति । कथम्? उच्यते, दानादिलब्धिपञ्चकम्, दर्शनत्रिकम्, ज्ञानत्रिकम्, सम्यक्त्वं सर्वविरतिश्च एवंलक्षणास्त्रयोदश, तथा पर्यायज्ञानप्रक्षेपेन चतुर्दश प्रमत्ताप्रमत्तयोः क्रमादित्यर्थः ॥ २३९॥
[२५३] अथाष्टमनवमदशमगुणेषु भावविचारमाह
[मूल] निवृत्त्यादित्रिकगुणे क्षायोपशमकं विना । संयमाभावयोगेन द्वादश स्युर्गुणद्विके॥२४०॥
(व्याख्या) निवृत्त्यादीत्यादि। निवृत्तिबादर अनिवृत्तिबादर-सूक्ष्मसम्परायगुणत्रिकेषु क्षायोपशमसम्यक्त्वं विना क्षायोपशमिकाः त्रयोदश भावा भवन्ति । तथाहि - दर्शनत्रिक ज्ञानचतुष्क- दानादिलब्धिपञ्चक-सर्वविरतिलक्षणानि त्रयोदश भवन्तीत्यर्थः । अष्टमादित्रिकगुणेषु क्षायोपशमसम्यक्त्वं तु न प्राप्यत इति। संयमेत्यादि। तथा गुणद्विके उपशान्तमोहैकादशमगुणे क्षीणमोहद्वादशमगुणे च क्षायोपशमिकसंयमाभावयोगेन द्वादश भावाः स्युरित्यर्थः। पूर्वोक्तरूपा एव भवन्तीति॥ २४० ॥ इति गुणेषु क्षायोपशमिकोत्तरभावभेदाः॥
[चतुर्दशगुणस्थानकेषु औदयिकभावविचारः]
[२५४] अथ गुणे औदयिकभावोत्तरभेदविचारगाथामाह
[मूल] नखाधिकैको मिथ्यात्वे औदयिकस्य विंशतिः ।
भेदा भवन्ति द्वितीये मिथ्यात्वाभावयोगतः ॥ २४१ ॥
(व्याख्या) नखेत्यादि। मिथ्यात्वगुणस्थानके औदयिकस्योत्तरभेदा नखाधिकैकः एकविंशतिर्भवन्ति ।