SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका ७७ तथा द्वितीये = सास थ्यात्वाभावयोगतो विंशतिर्भेदा भवन्तीत्यर्थः। तथाहि-अज्ञान-असिद्धत्व-लेश्यासंयम-कषायचतुष्क-गतिचतुष्क-वेदत्रिक-मिथ्यात्वैकविंशतिर्मिथ्यात्वे, द्वितीये मिथ्यात्वं विना विंशतिर्भेदा भवन्ति ॥२४१॥ [२५५] अथान्यस्मिन्गुणस्थानके औदयिकभावगाथामाह[मूल] तृतीयाब्ध्योर्दशखगा मुक्त्वाज्ञानं च पञ्चमे। नारकामरभावेन भवन्त्यद्रिदशोदयाः॥२४२॥ (व्याख्या) तृतीयेत्यादि। तृतीयतूर्यगुणस्थानकयोः = मिश्राविरतिलक्षणयोरज्ञानं विमुच्य दशखगाः = एकोनविंशतिभेदा असिद्धत्व-लेश्या-संयम-कषाय-गति-वेदत्रय-लक्षणा भवन्ति। तथा पञ्चमे देशविरतौ गुणे नारकसुरगत्य-भावेन अद्रिदशोदया = औदयिकसप्तदशभेदाः असिद्धत्व-लेश्या-संयम-कषाय-नरगति-तिर्यग्गति-वेदत्रयलक्षणा भवन्तीति॥२४२॥ [२५६] अथ प्रमत्ताप्रमत्तगुणस्थानकयोः औदयिकभावविचारगाथामाह[मूल| सुतिर्यक्संयमाभावात्षष्ठमेषुदशो भवेत्। निकृष्टलेश्याभावेन सप्तमे सन्ति द्वादशः॥२४३॥ (व्याख्या) तिर्यगित्यादि। षष्ठमे प्रमत्तगुणस्थानके तिर्यगसंयमाभावेन इषुदश = पञ्चदशभेदा असिद्धत्वलेश्या-कषाय-नरगति-वेदत्रयलक्षणा औदयिकभावा भवन्ति। निकृष्टेत्यादि। तथा सप्तमे अप्रमत्तगुणे कृष्णादिलेश्यात्रिकाभावेन औदयिकभेदाः असिद्धत्व-शुभलेश्या-कषाय-नरगति-वेदत्रय लक्षणाः द्वादश भवन्ति॥२४३॥ [२५७] अथाष्टमनवमदशमगुणस्थानेषु औदयिकभावविचारगाथामाह[मूल] तेज:पद्मविहीनेन मातङ्गनवमे दश। वेदादिमकषायाग्निहीनाः स्युर्दशमेऽब्धयः॥२४४॥ (व्याख्या) तेज इत्यादि। अष्टमे अपूर्वकरणगुणे तथा नवमे अनिवृत्तिबादरगुणे च तेजः पद्मलेश्याद्वयविहीनेन दश = दशभेदा असिद्धत्व-शुक्ललेश्या-कषाय-नरगति-वेदत्रयरूपा औदयिकभावस्य भवन्तीति। वेदेत्यादि। दशमे सूक्ष्मसम्परायगुणे आदिमश्चासौ कषायश्च आदिमकषायः, वेदश्च आदिमकषायश्चेति द्वन्द्वः तत्रिकहीनादिति। वेदत्रयादिकषायत्रयरूपषट्प्रकृतिविहीनादब्धयः = चत्वारो भेदाः स्युरित्यर्थः। तथाहि-असिद्धत्व-शुक्ल-सज्वलनलोभ नरगतिलक्षणा इति॥२४४॥ [२५८] अथ शेषगुणेषु औदयिकभावविचारगाथामाह[मूल] लोभाभावात्त्रयो भेदा भवन्त्युपरिमत्रिके। शुक्लाभावेन चरमे भेदौ द्वौ भवतः खलु॥२४५॥ (व्याख्या) लोभेत्यादि। सज्वलनलोभाभावादपरिमत्रिके = उपशान्तमोह-क्षीणमोह-सयोगि-गुणत्रिके असिद्धत्व-शुक्ल-नरगतिरूपास्त्रयो भेदा भवन्तीति। तथा चरमे अयोगिगुणस्थानके शुक्लाभावेन खलु = निश्चयेन नरगति-असिद्धत्वरूपौ द्वौ भेदौ भवत इत्यर्थः॥२४५॥ इत्यौदयिकभावभेदाः प्रोक्ताः॥ चतुर्दशगुणस्थानकेषु उपशमभावविचारः] [२५९] अथ गुणेषु उपशमभावभेदविचारगाथामाह[मूल] तूर्याद्युपशमान्तेषु भावश्चोपशमो भवेत्। नवमैकादशान्ते स्यात्संयमोपशमं नरान्॥२४६॥ १. यहां पर तिर्यगसंयमाभावात् पाठ अधिक संगत प्रतीत होता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy