________________
७८
स्याद्वादपुष्पकलिका
(व्याख्या) तूर्येत्यादि। अविरताद्युपशमान्तं यावद् गुणस्थानकेषु उपशमसम्यक्त्वलक्षण उपशमभावभेदो लभ्यते इति। तथा नवमैकादशान्तेत्यादि। नवमदशमैकादशमगुणस्थानकत्रिके नरान्संयमोपशमं शास्त्रान्तरे उपशमचारित्रस्य प्रतिपादनादुपशमभावभेदौ भवत इति।।२४६॥ इत्यौपशमिकभावभेदाः प्रोक्ताः॥
__ चतुर्दशगुणस्थानकेषु क्षायिकभावविचारः] [२६०] अथ गुणेषु क्षायिकभावभेदविचारगाथाद्विकमाह[मूल| तूर्याद्यष्टगुणस्थाने क्षायिकदर्शनं भवेत्। क्षीणे क्षायिकयोगेन क्षायिकसंयमोऽपि हि॥२४७॥ [मूल] दानादिलब्धयः पञ्च सम्यक्त्वं केवलद्विकम्।
संयमं च सन्ति भेदाः क्षायिकस्यान्त्यके द्विके॥२४८॥ (व्याख्या) तूर्यादित्यादि। अविरत-देशविरति-प्रमत्ताप्रमत्तापूर्वानिवृत्ति-सूक्ष्मसम्परायोपशान्तगुणाष्टकेषु श्रुते क्षायिकदर्शनमक्तं तेन क्षायिकदर्शनं भवति. नान्यता तथा क्षीणेत्यादि। क्षीणमोहगणे क्षायिकसम्यक्त्वयोगेन हि = अस्माद्धेतोः क्षायिकसंयमोऽपि भवेदिति। अनेन क्षायिकदर्शनं क्षायिकसंयमश्चेति द्वौ भेदौ भवतः। एतदेवाहदानादीत्यादि सूत्रम्। अन्त्यकद्विके = सयोग्ययोगिगुणद्विके क्षायिकभावस्य दानादिलब्धिपञ्चक-क्षायिकसम्यक्त्वकेवलद्विक-यथाख्यातसंयमलक्षणाः खेटोन्मिताः सन्तीत्यन्वयः॥२४७॥२४८॥ इति क्षायिकभावभेदाः॥
|चतुर्दशगुणस्थानकेषु पारिणामिकभावविचारः] [२६०] अथ पारिणामिकभावभेदगाथाद्विकमाह[मूल] जीवभव्याभव्यभेदा मिथ्यात्वे च त्रयं भवेत्।
द्वितीयात्क्षीणमोहान्तं मुक्त्वाभव्यमुभौ तथा॥२४९॥ [मूल] विहाय भव्यं जीवोऽस्ति गुणस्थानेऽन्त्यके द्विके।
__ इत्थमेते पञ्च भावा गुणस्थानेषु निर्ममे॥२५०॥ (व्याख्या) जीवेत्यादि।मिथ्यात्वगुणे जीवत्व-भव्यत्व-अभव्यत्वलक्षणा भेदाः त्रयः पारिणामिका भवेदिति। भवन्तीति। द्वितीयादित्यादि। तथा सास्वादनगुणादारभ्य क्षीणमोहं यावदभव्यं मुक्त्वा जीवत्वभव्यत्वलक्षणौ उभौ द्वौ तथेति भवेतामित्यर्थः॥ विहायेत्यादि सूत्रम्। अन्त्यके द्विके सयोगि-अयोगिगणस्थानकद्विके भव्यं विहाय जीवत्वमेक एव पारिणामिकभेदोऽस्तीत्यर्थः। नन केवलिनश्च कथं न भव्यत्वम? उच्यते, प्रत्यासन्नसिद्धावस्थाया भव्यत्वस्याभावादधुनापि तदपगतप्रायत्वादिना केनापि कारणेन शास्त्रान्तरेषु नोक्तमिति अतोऽत्रापि न प्रोक्तमिति। इत्थमित्यादि। इत्थम् = अमुनाप्रकारेण एते पूर्वोक्ताः पञ्चभावा मूलोत्तरभेदभिन्ना गुणस्थानेषु निर्ममे = चकथे इत्यर्थः॥२४९॥२५०॥ इति पञ्च भावाः।।
चतुर्दशगुणस्थानकेषु सान्निपातिकभावविचारः] [२६२] अथ सन्निपातकोत्तरभेदगाथामाह[मूल] गुप्त्यम्बरादब्धियुगगुप्तिपञ्चाब्धिपावकयोगेन सप्तमे त्रिंशन्नखादद्रिगजाधिकाः॥२५१॥ [मूल] नखाद्युगाधिकनखा दिशो खेटानलाधिकः।