________________
स्याद्वादपुष्पकलिका
७९
द्वादशान्त्ये गुणे भेदा भवन्ति सन्निपातिकाः॥२५२॥युग्मम्।।
(व्याख्या) गुप्त्यम्बरेत्यादि। अत्र यस्मिन्गुणस्थाने यस्य भावस्य भेदाः प्रोक्तास्तेषां भावभेदानामेकत्र मीलनेन यो निष्पन्नः स षष्ठमः सन्निपातको भावो भवति। तथाहि- गुप्तिश्च अम्बरश्च गुप्त्यम्बरौ इति द्वन्द्वः, गुप्त्यम्बरात् = त्रिंशतेः। अब्धि-युग-गुप्ति-पञ्चाब्धि-पावकयोगेन क्रमात्मिथ्यात्वे चतुस्त्रिंशत्। तथाहि-क्षायोपशमिकभावभेदा दश, तथौदयिक-भावभेदा एकविंशतिः, पारिणामिकभावभेदास्त्रयः, सर्वे मिश्रीकृता सान्निपातकभावाः चतुस्त्रिंशत् भवन्ति। एवं सास्वादने क्षायोपशमिक-औदयिक-पारिणामिका: सर्वे मिश्रीकृताः सन्निपातकभावभेदा द्वात्रिंशत्। एवं मिश्रे त्रयस्त्रिंशत्। तद्यथा- क्षायोपशमिका: १२ द्वादश, औदयिकाः १९ एकोनविंशतिः, पारिणामिकौ २ द्वौ। सर्वे मिश्रीकृताः सन्निपातकलक्षणाः ३३ त्रयस्त्रिंशत् भवन्ति। तथा विरतौ क्षायोपशमिकाः १२ द्वादश,
औदयिकाः १९ एकोनविंशतिः, औपशमिकः १ एकः, क्षायिकः १ एकः, पारिणामिकौ २ द्वौ। मिश्रीकृताः सन्निपातकभावाः त्रिंशत्पञ्चाधिका भवन्ति। तथा देशविरतौ क्षायोपशमिकाः १३ त्रयोदश, औदयिकाः १७ सप्तदश, औपशमिकः १ एकः, क्षायिकः १ एकः, पारिणामिकौ २ द्वौ मिश्रीकृतलक्षणसन्निपातकभावाश्चतुस्त्रिंशत् भवन्ति। तथा प्रमत्ते क्षायोपशमिकाः १४ चतुर्दश, औदयिकाः १५ पञ्चदश, औपशमिकः १, क्षायिकः १ एकः, पारिणामिकौ २ द्वौ एवंरूपास्त्रयस्त्रिंशद्भेदाः सन्निपातका लभ्यन्ते। तथैवाप्रमत्ते-३० त्रिंशत् सन्निपाता लभ्यन्त इति। तथाष्टमेऽपूर्वकरणे नखादित्यादि। विंशतः क्रमादद्रिगजाधिका ज्ञेया सप्तविंशतिर्भेदा भवन्ति। तथानिवृत्तौ अष्टाविंशतिर्भेदाः सन्तीति। नखादित्यादि। तथा सूक्ष्मसम्परायगुणे नखाद्युगाधिकेति। द्वाविंशतिः भेदा भवन्ति। तथोपशान्तमोहगुणे नखेति। विंशतिः सन्निपातका भवन्ति। तथा क्षीणमोहगुणे दिशः क्रमात्खेटानिलाधिका एकोनविंशतिः भेदा लभ्यन्ते इति। तथा सयोगिगुणे दिशोऽनिलाधिक। इति त्रयोदश सन्निपातिकभावभेदा लभ्यन्त इति। तथैवायोगिगुणे द्वादश। सन्निपातका भावभेदा भवन्तीति॥२५१॥२५२॥ इति भावद्वारम्॥ स्थापना चेयम्
| मि
सा | मि | अ | दे | प्र | अ
पू |
क्षी
१९ २१ २०
१८
१९ २०
२३ २६
२५
३१ ३३
३४ |
४१