SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका सङ्ख्यागुणस्थानक गुणस्थान नाम क्षयोपशमकभेदाः औदयिकभेदाः औपशमिकभेदाः क्षायिकभेदाः पारिणामिकभेदाः सन्निपातिकभेदाः शेषभेदाः इति॥ [नवमं जीवद्वारम्, दशमम् अनुयोगद्वारम्] [२६३] अथ जीवद्वारगाथामाह[मूल] जीवो भवेज्जीवद्रव्यः शेषाः पञ्चाप्यजीवकाः। सर्वे द्रव्याधिकारेण व्याख्या द्रव्यानुयोगकाः॥२५३॥ (व्याख्या) जीवेत्यादि। धर्मादिषड्द्रव्येषु जीवद्रव्यो जीवो भवेदिति। दशविधप्राणधारणहेतुत्वादिति। शेषाः पञ्चापि धर्मादयोऽजीवा बोद्धव्याः॥ इति जीवद्वारम्॥ अथानुयोगद्वारार्द्धगाथामाह- सर्वेत्यादि सूत्रम्। प्रवचने चत्वारोऽनुयोगा भवन्ति। तथाहि- चरणकरणानुयोगः, गणितानुयोगः, द्रव्यानुयोगः, धर्मकथानुयोगः। एतत्सर्वव्याख्यानं जिना द्रव्यानुयोगिकं वदन्तीत्यनेन एते द्रव्यानुयोगका भवन्तीति॥२५३॥ इत्यनुयोगद्वारम्।। [एकादशं क्षेत्रद्वारम्] [२६४] अथ अनुयोगाश्च इति चकारेण क्षेत्रद्वारमादृतमस्ति, क्षेत्राभावेन समग्र द्रव्याणामभावः स्यादतः क्षेत्रद्वारमाह[मूल] धर्मादिष्वम्बरं द्रव्यं लोकालोकप्रमाणकम्। क्षेत्ररूपमस्ति शेषाः सन्ति निःक्षेत्रलक्षणाः॥२५४॥
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy