________________
स्याद्वादपुष्पकलिका
(व्याख्या) धर्मादीत्यादि। धर्मादिषु द्रव्येषु क्षेत्राक्षेत्रविचारणायामेकमाकाशद्रव्यं सर्वगं लोकालोकोन्मितत्वेन सर्वद्रव्यावगाहकत्वेन वा क्षेत्ररूपमस्ति। शेषाः पञ्चापि धर्मादयः सदा निःक्षेत्रलक्षणाः सन्तीत्यर्थः ॥२५४॥
[२६५] अथ समग्रद्वारोपसंहारगाथामाह[मूल| रुद्रद्वारानुसारेण सद्भावार्थमुपेत्य च। विमुच्य पुद्गलानन्दं निजभावं समाचर॥२५५॥
(व्याख्या) रूद्रेत्यादि। भो! भव्य! रूद्रशब्देनैकादशेति एतत्पूर्वोक्तैकादशद्वारानुसारेण द्रव्यादीनां सद्भावार्थभावमुपेत्य। पुद्गलानन्दमिति। भवे वैभाविकानन्दं विमुच्य। निजभावमिति। स्वात्मीयात्मानुभवज्ञानेन यथार्थभावबोधं समाचरेत्यर्थः।।२५५।।
[उपसंहारः] [२६६] अथैतद्ग्रन्थविनिर्मितिप्रयोजनगाथामाह[मूल| जीवा दुर्नययोगेन मिथ्याशासनसङ्गताः। बोधिबीजं परित्यज्य भ्रमन्ति भवकानने॥२५६॥
(व्याख्या) जीवेत्यादि। भवकानने भव एव काननो भवकाननस्तस्मिन् = संसारारण्ये जीवा निजनिजाभिमत-निर्मितशास्त्रानुयायिमिथ्याशासनसङ्गतदुर्नययोगेन बोधिबीजं = सम्यक्त्वं परित्यज्य भ्रमन्तीति।।२५६॥
[२६७] तदानेन किं स्यादत एव गाथामाह[मूल] ततः श्रुतगुरुं लब्ध्वा विनयैर्गुरुभक्तितः। द्रव्यभावार्थमालम्ब्य श्रुतबोधमुपार्जय॥२५७॥
(व्याख्या) ततः श्रुतेत्यादि। ततः = तस्मात् कारणात् केनचित् पूर्वकृतपुण्यानुयोगेन श्रुतगुरुं = मुनियोगं लब्ध्वा विनयैर्वेयावच्चादिकैः प्रभूतभक्तितः। द्रव्येत्यादि। धर्मादीनां द्रव्यगुणपर्यायाणां सद्भावार्थमालम्ब्य शुभबोधं = सम्यक्त्ववित्तपुञ्जमुपार्जयेत्यन्वय इति।।२५७॥
[२६८] अथ सम्यक्त्वोपार्जनफलकथनगाथामाह[मूल] जीवाजीवस्वरूपं च विज्ञाय ज्ञपरिज्ञया। निजात्मगुणवित्तेन भजध्वं श्रेय(यो) मन्दिरम्॥२५८॥
(व्याख्या) जीवाजीवेत्यादि। ततो भव्याः ! सम्यक्त्वपूर्वकं ज्ञपरिज्ञया जीवाजीवयोः सद्भावस्वरूपं विज्ञाय चकारात्प्रत्याख्यानपरिज्ञया हेयोपादेयभावमङ्गीकृत्य। निजात्मेत्यादि। निजात्मनो गुणो निजात्मगुणो निःकलङ्काविनाशिकनिर्विकल्पापुनर्भवरूपकेवलान्वयी साद्यनन्तस्थित्यन्वितपरमानन्दरूपात्मको निजात्मदर्शनज्ञानादिवित्तेन श्रेयोमन्दिरं = श्रेयावासं विमलं भजध्वमित्यर्थः॥२५८॥
[२६९] अथैतत्प्रयोजनपूर्वकग्रन्थाभिधानगाथामाह[मूल] स्याद्वादपुष्पकलिका प्रवचनाद्विनिर्ममे। बालबोधाय लेशेन तत्त्वार्थावगमाय च॥२५९॥
(व्याख्या) स्याद्वादेत्यादि। अहं प्रवचनात् = जिनागमाल्लेशेन = सङ्क्षपेन स्याद्वादपुष्पकलिकाभिधानं प्रकरणं विनिर्ममे। कस्मै प्रयोजनाय? बालबोधाय चः = पुनस्तत्त्वार्थावगमायेत्यर्थः॥२५९॥
[ग्रन्थकर्तुः व्याख्याकर्तुश्च प्रशस्तिः] [२७०] अथ ग्रन्थकर्ता निजवंशाभिधानगाथामाह[मूल] कोटकेन्दुकुले रम्ये श्रीवंशोत्तमवाचके। निध्युपाध्यायस्य शिष्यश्चक्रे वाचकसंयमः॥२६०॥