________________
स्याद्वादपुष्पकलिका
(व्याख्या) कोटकेत्यादि। कोटके इन्दुश्चन्द्रः कोटकेन्दुश्चेदं कुलं च कोटकेन्दकुलं तस्मिन् रम्ये = प्रधाने तस्मिन्। श्रीवंशेत्यादि। श्रिया युक्तो वंशः श्रीवंशस्तेषूत्तमः = श्रेष्ठो वाचकः तस्मिन् श्रीवंशोत्तमवाचके। निधीत्यादि। निधिश्चासौ उपाध्यायश्च निध्युपाध्यायस्तस्य शिष्यो वाचकसंयमश्चारित्र इदं प्रकरणं चक्रे इत्यर्थः॥२६०॥
[२७१] अथ प्रकरणकर्ता स्याद्वादपुष्पकलिकाया व्याख्यां कलिकाप्रकाशमुपसंहरन्नाहश्रीमत्खरतरे गच्छे जिनसिंहपदाधिपः। सूरिः श्रीजिनराजोऽभूद्रव्याम्भोजदिनेश्वरः॥१॥ सूरिपादाम्बुजे भृङ्गः श्रीरामपाठकोऽभवत्। जिनशासनधौरेयः पद्महर्षसुवाचकः॥२॥ गुरुदृष्टिसरोहंसाः सुखनन्दनकाञ्चनाः। महिमत्रो(?)पाध्याया बभूवुः श्रुतिपारगाः॥३॥ तच्छिष्यो निध्युपाध्यायोऽभवत्प्रौढशिरोमणिः। चारित्रवाचकश्चक्रे गुरुपादप्रसादतः॥४॥ अथ वत्सरदिवसगाथामाहवत्सराब्धीन्दुखेटेन्दौ धर्मजन्यसुवासरे। सुश्रेयोवासलाभाय निर्ममे स्वेक्षिताय च॥५॥ स्याद्वादपुष्पकलिकायास्तत्त्वार्थप्रकाशिका। वृत्तिः समासतश्चक्रे मुदा स्तम्भनतीर्थके॥६॥
॥इति स्याद्वादपुष्पकलिकाप्रकाशः संपूर्णः॥
१. लेखक प्रशस्ति:- संवत् १९१४ ना आश्वीन कृष्ण ९ रवीवासरे ली. व्यास. सोमेश्वर शीवलाल स्तम्भतीरथे ठेकाणु छतरीसीपोलमध्ये ली. बोरपीपला आगल धरमशालामां|श्रीरस्तु कल्याणमस्तु शुभं भवतु॥श्रीः।। श्रीः।। श्रीः।।
सङ्ग्राहकप्रशस्ति:आसीन्नाशित-पाप-ताप-निकरो निर्मूलिताहकृतिरर्हच्छास्त्रसमुद्रपारगमनो निस्तन्द्रचन्द्राननः।। श्रीश्वेताम्बर-सङ्घ-मङ्गल-मुखं कर्मद्रु-दावानलः सूरिभूरिगुणालयोऽत्र विजयानन्दोऽह्यमन्दाशयः॥१॥ यो लुम्पाकमतं विहाय रभसा निर्वाणविघ्नप्रदंसंवेगामृतपान-पुष्टचरितः सत्यं मतसङ्गतः। योऽनेक-प्रतिपक्ष-पण्डित-गणं निर्जित्य जातोदयःस्वार्गं धाम जगाम काममथनश्चात्मादिरामाभिधः॥२॥ साध्वध्वाधमताददुर्व्यसनतोनानानरानावयन् भूपान् धर्मसुधांवटोदरनरेशादीन् बहून्याययन्। व्याख्यानात्प्रतिबोध्य धर्मरहितान् जीवावनं पालयन्मान्यश्रीविजयाङ्कितः कमलनामाचार्य एको बभौ॥३॥ सिद्धान्ताद्विपरीतवर्तनरता दूरीकृताः स्वापरे येनाकारि दिगन्तकीर्तिरमला दत्त्वाच सद्देशनाम्। तंसङ्घो रुचिरेऽणहिल्लनगरेऽद्रीब्ध्यङ्कभूवत्सरे प्रेम्णा स्थापितवान् मुनीन्द्रविजयानन्दीयसत्पट्टके।।४।। आत्माराममुनीश्वरस्य विदुषः शिष्यो विपश्चिद्वरः पूर्वोक्तस्य च पट्टदानसमये श्रीमानुपाध्यायकः। यत्सेवाकरणाच्च मूकबधिरः श्रोता च वक्ताऽभवत्पूज्योऽयं जयति स्म वीरविजयः प्रज्ञानुभावाञ्चितः॥५॥
औपाध्यायपदाढ्यवीरविजयस्यान्तेवसद्रत्नकं भूनागाङ्ककुविक्रमार्कशरदिच्छायापुरीपत्तने। स्वस्थाने कमलाख्यसूरिगुरुणाऽऽद्यः पट्टधृक्त्वेधृतोऽनेकैः शास्त्रविचारसार चतुरैः शिष्यैः सदा सेवितः॥६॥ काव्यालङ्कृतिलक्षण-करणग्रन्थादि सिद्धान्तविद् विश्वेऽस्मिन् विजयी सदा विजयते श्रीदानसूरीश्वरः। स्वीयश्रीगुरुवर्यवीरविजयोपाध्यायनामाङ्कित-तत्संस्थापितशास्त्रसङ्ग्रहभवं वर्तत्यदः पुस्तकम्।।७॥