SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् स्याद्वादपुष्पकलिकामात्रम् उपाध्यायश्रीचारित्रनन्दिविरचिता ॥स्याद्वादपुष्पकलिका॥ नत्वा संयमवामेयं गुरुं नौनिधिवाचकम्। स्याद्वादपुष्पकलिकां दर्शयामि जिनागमात्॥१॥ धर्माधर्मव्योमजीवपुद्गलाद्धा भवन्ति च। रसोन्मितानि द्रव्याणि लोको द्रव्यात्मकः स्मृतः॥२॥ अथैकादशद्वारकारिकालक्षणगणपर्यायस्वभावास्तिनयानि च। भावजीवानयोगाश्च द्रव्येष वितनोम्यहम्॥३॥ यत्सत्तल्लक्षणं द्रव्यं व्ययोत्पादध्रुवान्वितम्। त्रयोदशः स्युकेर्तिकः सामान्येतरतो गुणाः॥४॥ अथ सामान्यगुणकारिकाद्रव्यत्वास्तित्ववस्तुत्वप्रदेशत्वप्रमेयकम्। सत्त्वं चागुरुलघुत्वं चेतनाचेतनस्तथा॥५॥ मूर्तामूर्तक्रियान्यानि सामान्याः स्युस्त्रयोदश। अथ विशेषगुणाःदर्शनज्ञानसौख्यं च वीर्यं षट् चेतनादयः॥६॥ वर्णगन्धरसस्पर्शगतिस्थित्यवगाहना। वर्तनाहेतुचत्वारोऽष्टादश स्युर्विशेषिकाः॥७॥ अथ पर्याया:द्रव्यगुणविकारा ये पर्यायाः प्रवदन्ति ते। निजभावविभावाभ्यां द्विविधाः स्युर्जिनागमे॥८॥ वा द्रव्ये रसपर्यायाः स्युर्द्रव्ये द्रव्यव्यञ्जनः। गुणगुणव्यञ्जनकः स्वभावान्ये भवन्ति च॥९॥ अथ सामान्यस्वभावाःनित्यैकास्तिभेदभव्यवक्तव्येतरकोत्कटाः। सामान्यानि स्वभावाः स्युः त्रयोदशमितानि च॥१०॥ मूर्तचेतनशुद्धैकप्रदेशप्रतिपक्षिकाः। विभावाश्चोपचरितस्वभावाः स्युर्विशेषिकाः॥११॥ अथास्तिकाय:जीवाजीवप्रभेदाभ्यां स्याद् द्विविधोऽस्तिकायिकः। नूनं जीवस्त्वेकविधोऽपरो धर्मादिकाम्बुधिः॥१२॥ अथ नयाभिधानानिद्रव्यपर्यायार्थिकाभ्यां मूलतोऽस्ति नयद्विधा। अथ द्रव्यार्थिकभेदाःशुद्धसत्तैकद्रव्याशुद्धनित्यस्वरूपकाः॥१३॥ सद्वक्तव्यान्वयोत्कृष्टपरमभावकास्तथा। द्रव्यार्थिको दशविधो भवेत्तीर्थङ्करागमे॥१४॥ अथ पर्यायार्थिकभेदा:पर्यायार्थिकभेदाश्च पूर्वोक्ता द्रव्यकादयः। वानादिसादितो नित्यौ नित्यशुद्धतरौ भवेत्॥१५॥ नित्याशुद्धतरौ ज्ञेयौ भवन्ति षड्विधानि च। इमेऽपि भेदाः सिद्धान्ते वदन्ति पूर्वसूरयः॥१६॥ द्रव्यपर्याययोर्भेदा नयैः सन्ति महीधराः। नैगमसङ्ग्रहव्यवहारर्जुसूत्रकानि च॥१७॥
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy