________________
५४
स्याद्वादपुष्पकलिका
द्रव्यार्थिकोऽस्ति चत्वारः सत्पर्यायार्थिकस्त्रिधा। शब्दसमभिरुदैवम्भूतभेदेन विद्यते॥१८॥ आरोपसङ्कल्पांशैश्च नैगमस्त्रिविधो भवेत्। उपचारकमादृत्य महाभाष्ये चतुर्विधः॥१९॥ द्रव्यकालगुणारोपो हेत्वाधारोपभेदतः। नैगमोदधिभेदः स्यात्सङ्कल्पो द्विविधो भवेत्॥२०॥ प्रथमः स्वपरिणामः कार्यान्तर(रो)द्वितीयकः। भिन्नाभिन्नस्वरूपाभ्यामंशोऽपि द्विविधो भवेत्॥२१॥ इति नैगमोत्तरभेदाः। सङ्ग्रहो द्विविधः प्रोक्तः सामान्यसुविशेषतः। मूलोत्तरप्रभेदाभ्यां सामान्यो द्विविधः स्मृतः॥२२॥ आद्योऽस्तित्वादिषड्भेदोऽस्त्युत्तरो विविधः स्मृतः। स्वसमुदायभावेन भिन्नरूपकजातितः॥२३॥ वा व्यतिरेकानुगमसगृहीतसुपिण्डिताः। सङ्ग्रहः स्याच्चतुर्भेदो विशेषावश्यकागमात्॥२४॥ इति सङ्ग्रहः। शुद्धाशुद्धप्रभेदाभ्यां व्यवहारो युगः स्मृतः। वस्तुगतसाधनाभ्यां शुद्धः स्याद् द्विविधः श्रुतौ॥२५॥ सद्भूतकेतराभ्यां च अशुद्धोऽपि भवेद् द्विधा। असद्भूतोऽपि द्विविधः स्यात्संश्लिष्टेतरेण च॥२६॥ व्यवहारो युगं स्याद्वा विभजनप्रवृत्तितः। प्रवृत्तिस्त्रिविधा ज्ञेया वस्तुसाधनलौकिकात्॥२७॥ लोकोत्तरा लौकिका च कुप्रावचनिका तथा। साधना त्रिविधा प्रोक्ता विशेषावश्यकागमे॥२८॥ ग्रन्थान्यस्मिन् शुद्धशुभोपचरितेतरैस्तथा। व्यवहारो रसविधो भवेत्तज्ज्ञानुसारतः॥२९॥ इति व्यवहारोत्तरभेदाः। प्रवृत्तिकालमादृत्य ऋजुसूत्रनयो भवेत्। नामाद्यब्धिप्रकारेण मत्या द्रव्येषु योजयेत्॥३०॥ इति ऋजुसूत्रः। सुवाच्यार्थग्राहकेन तत्समः स्वक्रियान्वितः। भावनिक्षेपमादृत्य द्रव्ये शब्दनयो भवेत्॥३१॥ आविर्भावतिरोभावैरनेकधर्मसंयुतः। सप्तभङ्ग्यनुयोगेन वदेच्छब्दनयः श्रुतौ॥३२॥ प्रत्येकमेकभेदोऽस्ति श्रुतौ शब्दनयादयः। पर्यायार्थिकमन्येऽत्र वदन्ति ऋजुसूत्रकम्॥३३॥ इति शब्दः। सज्ञान्तरार्थविमुखो भवेत्समभिरूढकः। सर्वभावेषु या सज्ञा तां तामेव वदेद् ध्रुवम्॥३४॥ इति समभिरूढः। एवं यथा शब्दभाव: शब्दार्थेषु व्यवस्थितः। यत्प्रवृत्तिस्तत्तथैव सैवम्भूतो निगद्यते॥३५॥ इत्येवम्भूतः। परोक्षप्रत्यक्षाभ्यां च प्रमाणं द्विविधं स्मृतम्। परोक्षमिन्द्रियज्ञानं प्रत्यक्षं स्यादनिन्द्रियम्॥३६॥ इति प्रमाणम्। क्षायिकोपशममिश्रपरिणामोदयस्तथा। षष्ठमः सन्निपातश्च भावाः सन्ति जिनागमे॥३७॥ कैवल्यदर्शनज्ञानं तथा क्षायिकदर्शनम्। क्षयान्तरायचारित्रखगाः सन्त्युत्तराणि च॥३८॥ शमदर्शनचारित्रौ युगलोपशमो भवेत्। ज्ञानाम्बुनिध्यज्ञानानि त्रिदर्शन-गृहस्थकाः॥३९॥ संयमी मिश्रसम्यक्त्वदानादिशरलब्धयः। मिश्रभावोत्तराः भेदाः भवन्त्यष्टादश श्रुतौ॥४०॥ कषायसंयमज्ञानलेश्यासिद्धचतुर्गतिः। वेदमिथ्यात्वोत्तराः स्युरेकविंशतिधोदयः॥४१॥
यहां पर नैगमोदधिभेदः इस पाठ की जगह नैगम उदधिभेदः यह पाठ उचित लगता है परन्तु ऐसा करने पर छन्दभङ्ग होता है। सोलहवी गाथा में भी परीणाम यह शब्द अशुद्ध है। उसकी जगह परिणाम ऐसा पाठ होना चाहिए परन्तु ऐसा करने पर छन्दभंग होता है।