________________
प्रथमं परिशिष्टम्
जीवभव्याभव्यभेदैः परिणामस्त्रिधा भवेत्। इमान्युत्तरभेदानि भावानां प्रविनिर्ममे॥४२॥ इति भावः। भवेज्जीवस्त्वेकविधः स्वनुयोगश्चतुर्विधः। द्रव्यचारित्रगणितसुधर्माः स्युर्जिनागमे॥४३॥ देशगः सर्वगश्चैव क्षेत्रोभयविधः स्मृतः। शिवोन्मितानि द्वाराणि लेशेनेत्थमचीकथन्॥४४॥ इति द्वारोत्तरभेदाः। जीवाजीवस्वरूपश्च लोके राशिद्विकः स्मृतः। धर्माधर्मा अस्तिकायाः भवन्ति पुद्गलास्तथा॥४५॥ सिद्धसंसारिभेदाभ्यां जीवस्तु द्विविधः स्मृतः। निजभावविभावाभ्यां भवेत्पर्यायभेदतः॥४६॥ जीवादिवस्तुनो भावः स्वरूपं तत्त्वमेव हि। यत्सर्वथाविरोधेन व्याप्यव्यापकभावतः॥४७॥ यं लक्ष्यते यथार्थेन वस्तु सद्रपलक्षणम्। क्षेत्रकालभावकानामेकपिण्डस्वरूपकम्॥४८॥ कार्यभेदेन भावानां द्रव्ये भेदा भवन्ति च। तज्ज्ञागमानुसारेण ज्ञातव्या जिनशासने॥४९॥ व्ययोत्पादध्रुवयुतं यत्सत्तद् द्रव्यलक्षणम्। भवेत्समग्रद्रव्येषु योज्यं मेधानुसारतः॥५०॥ द्रव्यपर्याययुगलनयमाश्रित्य लक्षणम्। इति। गुणपर्यायवद् द्रव्यमेतत्पर्यायमादृतः॥५१॥ अर्थक्रियाकारि द्रव्यं स्वस्वधर्मसमादृतैः। इत्यादयो रसगुणा: परिणामादिभावतः॥५२॥ द्रव्याद् द्रव्यपृथग्भावो यैस्ते प्रक्रियते गुणाः। द्रव्येषु ये गुणाः सन्ति वच्म्यहं तान् जिनागमात्॥५३॥ द्रव्यैकस्मिन्प्रदेशे च शक्याः स्वकार्यहेतवे। सन्त्यनन्ताविभागा ये पर्यायसञ्चया गुणाः॥५४॥ धर्माधर्माभ्रद्रव्येषु मूर्तचेतनसक्रियम्। विहाय दिग्गुणाः सन्ति सामान्यानि बुधोदिताः॥५५॥ जीवाक्रियामूर्तकत्वं मूर्तत्वचेतनाक्रियम्। विमुच्य पुद्गले जीवे सामान्याः प्रभवन्ति ते॥५६॥ अचैतन्यामूर्तगत्यक्रिया धर्मे द्वयोत्कटाः। गतिं मुक्त्वा स्थितिक्षेपादधर्मे सन्ति वारिधिः॥५७॥ तथावगाहनक्षेपात्परावर्तनकस्य च। विशेषाब्धिगुणाः सन्ति क्रमादम्बरकालयोः॥५८॥ वीर्यदृष्टिज्ञानसुखचैतन्यमूर्तकानि च। विशेषा: षड् गुणाः ज्ञेया जीवद्रव्ये भवन्ति च॥५९॥ वर्णगन्धरसस्पर्शाचैतन्यरूपकास्तथा। गुणास्ते पुद्गले सन्ति गुणद्वारं प्ररूपितम्॥६०॥ इति गुणद्वारम्॥ प्रदेशासङ्ख्यकैकत्वस्थितिर्द्रव्यं निगद्यते। गुणोत्कटान्यद्रव्याणां प्रोच्यते द्रव्यव्यञ्जनः॥६१॥ गुणाविभागानन्ताः पर्यायव्यूहका गुणाः। ज्ञानादयः कार्यरूपाश्चतुर्थो गुणव्यञ्जनः॥६२॥ द्रव्येषु ये स्वपर्यायाः प्रोच्यन्ते ते स्वभावजाः। ये द्रव्येष्वन्यपर्यायास्ते विभावा निगद्यते(न्ते)॥६३॥ प्रदेशासङ्ख्यपिण्डत्वस्थितिद्रव्येषु द्रव्यकः। गत्यादयो विशेषाश्च धर्मोऽस्ति द्रव्यव्यञ्जनः॥६४॥ तथा स्थित्यादयोऽधर्मेऽवगाहप्रमुखा अम्बरे। चैतन्यत्वादयो जीवे पुद्गले वर्णकादयः॥६५॥ परावृत्त्यादयः काले गदितो द्रव्यव्यञ्जनः। गुणाविभागानन्तानि द्रव्येषु तृतीयो भवेत्॥६६॥ धर्माधर्माभ्रकालेष्वरूपावर्णादयो गुणाः। जीवे ज्ञानादिकानां च ज्ञानं स्याद् गुणव्यञ्जनः॥६७॥ पुद्गले रूपमादृत्य वर्णगन्धरसादयः। गुणव्यञ्जनपर्यायाः द्रव्येषु गदिता मया॥६८॥ स्वपर्याया (अ)गुरुलघुविकारास्ते स्वभावजाः। षड्गुणाः वृद्धिहानिभ्यां सर्वद्रव्येषु विद्यन्ते॥६९॥ जीवे विभावपर्यायाश्चत्वारो गतयः स्मृताः। व्यणुकादयः पुद्गले स्कन्धा भवन्त्यनन्तकाः॥७०॥ अनादिनित्यपर्यायैः भूधराः सन्ति भूतले। एवं द्रव्येषु पर्यायद्वारं निगदितं मया॥७१॥