________________
८६
स्याद्वादपुष्पकलिका
इति पर्यायद्वारम्।।
शुद्धाशुद्धमूर्तजीवविभावेषुस्वभावकान्। विमुच्य धर्मादित्रिषु दिग्गजाः स्युः स्वभावजाः(काः)॥७२॥ बहुप्रदेशमुक्तेन काले दिग्भूधराधिकाः । जीवपुद्गलयोरेकविंशतिः स्युः स्वभावकाः॥७३॥ नित्यावस्थितान्यरूपाणि तत्त्वार्थे प्रवदन्ति च । लोके समग्रद्रव्येषु गुणपर्यायकेषु च ॥७४॥ तद्भावाव्ययभावेन नित्यमिति प्रवक्ष्यते। पञ्चत्वभूतार्थत्वाभ्यां द्वितीयोऽव्यभिचारतः॥७५॥ स्पर्शादिमूर्त्यभावेन अरूपीति निगद्यते। सामान्यान्यविशेषानि सूत्रोक्तानि भवन्ति ते॥७६॥ मूर्तत्वगुणमादृत्य पुद्गला एव रूपिणः। विशेषगुणसंयुक्ता मूर्ताः सन्ति रसादयः॥७७॥ आकाशादेकद्रव्याणि धर्मादीनि भवन्ति च । तथैवानेकद्रव्याणि विद्यन्ते जीवपुद्गलाः ॥७८॥ धर्मादयो निःक्रियाणि जीवपुद्गलसक्रिये । प्रदेशावयवव्यूहैः प्रोच्यन्ते कायसञ्ज्ञकाः॥७९॥ परमाणून्यवयवा सुस्कन्धानां निरन्तरम् । स्कन्धाणुघातभेदेभ्यः प्रदेशाः सन्त्युत्पत्तितः॥८०॥ तत्र धर्माधर्मयोश्च प्रदेशाः सन्त्यसङ्ख्यकाः । क्षेत्रे समग्रसूक्ष्मः स्यात्परमाणो (र)वगाहकः॥८१॥ जीवैकं द्रव्यमादृत्य प्रदेशाः सन्त्यसङ्ख्यकाः । तथैव लोकाकाशस्य गगनस्य त्वनन्तकाः॥८२॥ सङ्ख्यासङ्ख्यानन्तकाश्च पुद्गलानां प्रदेशकाः । भवन्त्यणुरप्रदेशो मध्याद्यभावतः खलु॥८३॥ परिणामसप्रदेशनित्यकर्तृत्वकारणम् । क्रियसर्वगताश्चैव भवन्ति निश्चयेतरात्॥८४॥
द्रव्येषु मूलसामान्यस्वभावामी (वा अ) भवन्ति षट्। अस्तित्वं वस्तु द्रव्यत्वं प्रमेयत्वं चतुर्थकम्॥८५॥ सत्त्वं चागुरुलघुत्वं द्रव्येष्वेते निरन्तरम्। परिणामिकभावेन स्वतः परिणमन्ति च ॥८६॥ आधारभूतधर्मत्वमस्तित्वं च द्वितीयकम् । अर्थक्रियायाः कारित्वं द्रव्यत्वं स्याज्जिनागमे॥८७॥ वोत्पादव्यययोर्मध्ये पर्यायोत्पादकानि च । जनकं प्रसवत्वं वाविर्भावलक्षणं भवेत्॥८८॥ व्ययपर्यायकाणां च यस्तिरोभावको भवेत् । अभावरूपाया शक्तेराधारं द्रव्यलक्षणम्॥८९॥ स्वान्यात्मकं बोधरूपं यज्ज्ञानं स्यात्प्रमाणकम्। तेन प्रमातुं यद्योग्यं प्रमेयत्वं तदुच्यते॥९०॥ ध्रौव्योत्पादव्यययुतं तत्सत्त्वं प्रविनिर्दिशेत्। षट्गुणवृद्धिहानिभ्यां स्वभावोऽस्त्यगुरुलघुः॥९१॥ द्रव्यगुणप्रदेशाश्च भेत्तुं शक्या भवन्ति ये । सर्वद्रव्याधारभूतो (तम)गुरुलघुत्वमुच्यते॥९२॥ एते रसस्वभावाश्च सर्वद्रव्येषु सर्वदा। पारिणामिकयोगेन सामान्यानि (श्च) गदन्ति ते॥९३॥ वस्तुष्वनन्तकाः सन्ति प्रोक्ताः सामान्यकाः जिनैः। त्रयोदशापि पश्यन्ति अनेकान्तजयादिषु॥९४॥ पारम्पर्याप्रच्युतिभ्यां नित्यो युगविधः स्मृतः । कूटस्थपरिणामी द्वौ ग्रन्थान्ये विद्य(द्ये) तेऽथवा ॥९५॥ कार्यान्वयकारणाभ्यां युक्तो नित्य स्वभावकः । द्रव्याणां गुण बोधायानित्योऽप्यस्ति द्वितीयकः॥९६॥ सर्वस्वभावपर्यायाधारभूतप्रदेशकान्। स्वक्षेत्रभिन्नरूपाणामेकोऽस्त्येकत्वपिण्डतः॥९७॥ क्षेत्रकालसुभावानां गुणविभागयोगतः । भिन्नकार्यप्रवृत्तीनां भवेद्भिन्नप्रवाहकः॥९८॥ द्रव्यैकभावाभावेन सामान्यविरहो भवेत्। तेष्वनेकाभावयोगाद्विशेषाभावकस्तथा॥९९॥ स्वद्रव्यादिचतुष्केन व्याप्यव्यापकसंस्थितान्। भावाद्भावान्तरो हेतुस्तद्रूपो वस्तुनो भवेत्॥१००॥ द्रव्याद्यपरजातीनां स्वद्रव्यादिचतुष्टये। सदा व्यवस्थितानां च द्रव्याद्यन्यविवक्षिते॥१०१॥ सर्वदैवाविच्छिन्नानामन्यधर्मसमुच्चयाः। व्यावृत्तिरूपो यो भावः प्रोच्यते नास्तिरूपकः॥१०२॥ यथा जीवे गुणव्यूहाः सज्ज्ञानदर्शनादयः । तेषामस्तिस्वभावोऽस्ति नास्तिकोऽन्यगुणादिकान्॥१०३॥ घटे घटधर्मास्तित्वं नास्तित्वं परधर्मतः । एवं समग्रद्रव्येषु अस्तिनास्त्युभको भवेत्॥१०४॥