________________
प्रथमं परिशिष्टम्
८७
स्वपरोभयपर्यायैः सद्भावेतरकोद्भवैः। कुम्भः कुम्भाकुम्भकौ द्वाववक्तव्योभयाद्भवेत्॥१०५॥ एतेऽस्त्यादिस्त्रयो भङ्गाः पूर्णवस्तुसमादरात्। भवन्ति सकलादेशा विकलादेशकाः परे॥१०६॥ निजान्यसत्त्वासत्त्वेन सदसच्च घटोऽघटः। जीवोऽपि स्वान्यपर्यायैः सदसद्विद्यते खलु॥१०७॥ विवक्षितः स्वैः सद्भावोऽन्यदेशे स्वपरोभयैः। युगपत्सत्त्वासत्त्वाभ्यामवक्तव्योऽस्ति पञ्चमः॥१०८॥ वस्त्वैकदेशे परकैरसद्भावसमर्पितः। भावान्यसत्त्वान्याभ्यां स्वान्यैरवक्तव्यको भवेत्॥१०९॥ वस्तुदेशे स्वपर्यायैः सद्भावेन समर्पितः। तथा देशेऽन्यपर्यायैरसद्भावसमर्पितः॥११०॥ स्वपरोभयपर्यायैर्देशेऽन्यस्मिन्विवक्षितः। युगपदेकशब्देन भवेद्वक्तुं त्रियोगकः॥१११॥ ज्ञानादिनिजधर्मेषु अस्तित्वेन प्रवर्तनात्। जीवस्य प्रथमो भगः अस्तिरूपो भवेत्खलु॥११२॥ स्वान्यजात्यन्यद्रव्याणां तद्धर्माणां च सर्वथा। जीवे नास्तित्वभावेन भगः स्यान्नास्तिको भवेत्॥११३॥ द्रव्ये च केचिद्धर्माणां वाग्गोचरनिषेधतः। तृतीयः स्यादवक्तव्यः स्याद्धर्मापेक्षया भवेत्॥११४॥ समकालप्रवृत्तिनः अस्तिनास्तिस्वभावयोः। वस्तुन्येकसमये स्यात्तुर्यः स्यादस्तिनास्तिकः॥११५॥ अस्तिनास्तिस्वभावाश्च वक्तव्याः सन्ति वस्तुषु। अवक्तव्याभावशङ्काभावाय स्यादुभौ क्रमात्॥११६॥ द्रव्यादिश्चैकसमये समकालप्रवृत्तितः। वक्तव्यान्यास्तिनास्तिश्च भावानां सप्तमो भवेत्॥११७॥ अत्रास्तित्वेऽस्ति धर्मोऽस्ति नास्तित्वे नास्तिधर्मकः। युगपद्युगभावेनावक्तव्यं स्यादवाक्पदम्॥११८॥ अस्त्यादयस्त्रयो भङ्गाः सर्वादेशा भवन्ति च। चत्वारो विकलादेशाः पूर्णैकदेशभावतः॥११९॥ एवं द्रव्येषु नित्यैकादिषु सन्त्यद्रिभङ्गिकाः। सामान्येतरधर्माणां गुणानां च भवेदिमाः॥१२०॥ ज्ञानत्वेन ज्ञानमस्ति नास्तित्वो ऽपि निजेतरैः। इत्थं पञ्चास्तिकायेषु भवन्ति सप्तभङ्गिकाः॥१२१॥ अस्त्यभावे गुणाभावस्तेन स्याद्वस्तुशून्यता। नास्त्यभावेऽन्यभावेन मिश्रः स्यात्पारिणामिकैः॥१२२॥ पुनर्व्यञ्जकयोगेन सत्तासत्ता स्फुरेत्तथा। पदार्था नियतापत्तिर्दोषो भूयादतोचितौ॥१२३॥ स्वभावस्वकार्यगुरुलघुपर्यायभेदतः। भेदस्वभावोऽवस्थानाधारभूतोऽस्त्यभेदकः॥१२४॥ भेदाभावे गुणानां च द्रव्येषु सङ्करो भवेत्। अभेदाभावयोगेन स्थानविध्वंसकस्तथा॥१२५॥ पारिणामिकभावत्वे ये पर्यायोत्तरोत्तराः। तेषां परिणमत्वेन भवेद्भव्यस्वभावकः॥१२६॥ द्रव्येष्वस्त्यादयो मूलावस्थानामविमुक्तितः। कालत्रिके च तद्रूपः स्यादभव्यस्वभावकः॥१२७॥ भव्याभावे विशेषाणां द्रव्ये स्यादप्रवृत्तिकः। द्रव्यान्तरवियोगाय वक्तुं योग्योऽस्त्यभव्यकः॥१२८॥ वाग्गोचरापन्नधर्मास्ते वक्तव्याः भवन्ति च। तत्प्रतिपक्षिका: भावा अवक्तव्यास्तथैव स्युः॥१२९॥ वक्तव्याभावयोगेन सिद्धान्तविरहो भवेत्। अवक्तव्यवियोगेन पर्यायविगमस्तदा॥१३०॥ ये समग्रपदार्थानां भवन्ति परमेतरे। गुणास्तेषां वृत्तिहेतुः स्यात्परमस्वभावकः॥१३१॥ तथैवास्तित्वनास्तित्वकर्तृभोक्तृगुणत्वकः। प्रदेशत्वासर्वगतेत्याद्यनेका भवन्ति च॥१३२॥ द्रव्यं प्रति सर्वधर्मा अनन्तधर्मवत्त्वतः। न शक्याः सन्ति गदितुं छद्मस्थज्ञायकोऽपि हि (ज्ञायकैरपि)॥१३३॥ पर्यायपरिणामाश्च स्वप्रवृत्तिनिमित्तकाः। पारिणामिककर्तृत्वज्ञायकग्राहकास्तथा॥१३४॥ भोक्तृत्वरक्षणाधाराधेयताव्याप्यव्यापकाः। विभुकरणता जन्यजनकः कारकः प्रभुः॥१३५॥ स्वकार्यत्वसप्रदेशभावकाभावका अपि। गतिस्थित्यवगाहश्चागुरुलघ्वचलाक्रियः॥१३६॥
१. यहां पर नास्तित्वो की जगह नास्तित्वम् पाठ उचित लगता है, किंतु ऐसा करने पर छंदोभंग होता है।