Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
.
स्याद्वादपुष्पकलिका
सक्रियाखण्डनिस्सङ्गा इत्यनेके भवन्ति च। निजकार्योपकरणसुप्रवृत्तिनिमित्तकाः॥१३७॥ इति स्वभावद्वारम्।। लोके पञ्चास्तिकायास्ति प्रदेशानां समुच्चयात्। काल: प्रदेशाभावेन अस्त्यभावो निगद्यते॥१३८॥ इत्यस्तिकायद्वारम्॥ सर्वद्रव्येषु विज्ञेयाः सुनिक्षेपाश्चतुर्विधाः। स्युर्नामस्थापनाद्रव्यभावभेदैर्जघन्यतः॥१३९॥ सङकेतसहजाभ्यां च नामस्त द्विविधः स्मतः। सहजारोपजाभ्यां च स्थापना द्विविधा भवेत्॥१४०॥ आगमनोआगमाभ्यां द्रव्यनिक्षेपको द्विधा। आगमतस्तदर्थज्ञोऽनुपयुक्तो भवेद्यदा॥१४१॥ जभव्यव्यतिरिक्तैः स्याद द्रव्यो नोआगमस्त्रिधा। त्रयो नामादिनिक्षेपाः सन्ति कारणरूपकाः॥१४२॥ भावनिक्षेपको भावकार्यरूपोऽस्ति सर्वदा। कार्यप्रवृत्त्यभावेन निष्फलास्ते भवन्ति च॥१४३॥ भावानां बोधभावेन सन्ति ज्ञानांशका नयाः। धर्मानन्तात्मभावेऽस्य धर्मैकस्थापनं नयः॥१४४॥ तत्र व्याससमासाभ्यां नयो युगविधो भवेत्। व्यासतोऽनेकभेदः स्याद् युगभेदः समासतः॥१४५॥ कालत्रिकैकैव द्रव्यः प्रयोजनसमागते। द्रव्यार्थिकोऽस्ति पर्यायोत्पादव्ययध्रुवान्वितः॥१४६॥ पञ्चास्तिकायिकानां च परावर्तनधर्मतः। कालस्य द्रव्यकथनं द्रव्यारोपोऽस्ति तद्गुणे॥१४७॥ ज्ञानादिगुणमादृत्य तद्रव्यमनपेक्ष्य च। ज्ञानमेव यथा जीवस्तद्गुणारोप उच्यते॥१४८॥ अतीतकालभावानां करोत्यारोपकं यदा। तदा सम्प्रतिकाले च भूतारोपः स प्रोच्यते॥१४९॥ वीरनिर्वाणयोगेन यथाद्य दीपमालिका। एवमनागतारोपो यथास्ति पद्मवासरः॥१५०॥ उपादानसुनैमित्तासामान्यापेक्षकादिकः। कार्यारोप: कारणेऽस्ति द्रव्याहन्तारको यथा॥१५१॥ आरोपसर्जनारोपसङ्कल्पांशादिभेदतः। नैकगमग्राहरूपः सच्चैतन्यं च नैगमात्॥१५२॥ अंशग्राही नैगमश्च सत्तासिद्धिसमानकः। यथा सूक्ष्मः सिद्धसमो भवेत्संसारिको जिनः॥१५३॥ एवं पञ्चास्तिकायेषु प्रोक्तोऽयं नैगमो नयः। जिनागमाच्च बुद्ध्या च सर्वभावेषु योजयेत्॥१५४॥ सङ्ग्रहज्ञानयोगेन एते पञ्चास्तिकायिकाः। सामान्यान्यधर्मरूपौ वदन्ति सङ्ग्रहान्विताः॥१५५॥ द्रव्येषु व्याप्यभावस्थे गुणपर्यायव्यापकात्। परिणामिलक्षणस्थः सामान्यः प्रोच्यते तदा॥१५६॥ निरवयवैकनित्याक्रियसर्वगतान्वितः। सामान्योऽस्ति पिण्डरूपो गुणपर्यायसंयुतः॥१५७॥ नित्यानित्यसावयवनिरवयवसक्रियः। देशगः सर्वगश्चास्ति विशेषो गुणहेतुकः॥१५८॥ मूलसामान्यभेदामी वस्तुत्वास्तिप्रमेयकम्। द्रव्यसत्त्वागुरुलघुः रसोन्माना भवन्ति च॥१५९॥ नित्याद्यत्तरसामान्येतरे परिणमादयः। प्रोच्यन्ते गणपर्यायाधारत्वं वस्तकं बधाः॥१६०॥ सग्रहज्ञानयोगेन द्रव्यं सामान्यतो वदेत। विशेषसग्रहतया जीवेति प्रवदन्ति ते॥१६॥ नित्यादयश्च सामान्या विपरीता विशेषकाः। निजमेधानुयोगेन द्रव्येषु सङ्ग्रहो वदेत्॥१६२॥ सामान्याभिमुखेन ग्रहणं यत्सङ्गृहीतकः। ज्ञात्वैकमेकजातीनामेकेन सङ्ग्रहात्मकः॥१६३॥ सर्वभावेष्वनुगमसामान्यप्रतिपादनम्। सोऽनुगमसङ्ग्रहः स्याद् व्यतिरेकोऽन्य इति ग्रहात्॥१६४॥ वा महदवान्तराभ्यां सङ्ग्रहो द्विविधो भवेत्। सत्तारूपोऽस्ति प्रथमः पिण्डितार्थो द्वितीयकः॥१६५॥ भेदान्तरविभजनैर्व्यवहारप्रवर्तनम्। भवेद् व्यवहारनयः पूर्वप्रोक्तानुसारतः॥१६६॥ सर्वद्रव्यस्वरूपाणां शुद्धप्रवृत्तिलक्षणैः। चलनादिसहायैश्च स द्रव्यज्ञायको भवेत्॥१६७॥ लोकालोकज्ञानरूपो जीवस्य साधना तथा। स्यात्सम्पूर्णपरमात्मभावसाधनरूपकः॥१६८॥

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218