Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 62
________________ २८ स्याद्वादपुष्पकलिका द्रव्यास्तिकनयनिरपेक्षनिरूपणायामेकान्तवादः स्यात्स च बहुदोषव्रातत्वात् सामीक्षिका 'भिप्रायवदसमञ्जसः स्यात्। ननु चैवमेकनयनिरुपणा न जैनेन्द्रदर्शनप्रतिपूरणायालम्, सत्यमेतत् किञ्च द्रव्यास्तिकपर्यायास्तिकयोः प्रधानगुणभावविवक्षावशाद्वस्तुस्वतत्त्वमुपनीयते जिनाधिपैरन्यथा हीत्थं वस्तुप्रज्ञापना दुःकरा स्यादतः प्रज्ञापनेयम-भिन्नांशस्य वस्तुनो नरसिंहस्येव नरकेसरिशब्दभेदेन । तत्र हि द्रव्यास्तिकस्य प्राधान्यमाश्रित्येतरस्य च गौणभावं नित्यता प्रज्ञाप्यते। यथा चैतानि न युगलोपसङ्गृहीतानि तथा नयाधिकारे प्रवक्ष्यामि। [नित्यत्वनिर्वचनम्] [८७] | तामेव च ध्रौव्यांशद्रव्यास्तिकनयप्रज्ञापनामादर्शयितुमाह-नित्यानि भवन्ति (त.सू.भा.५.३) नित्यानि {नेर्धवेत्यब्(सि.६.३.१७)} = ध्रुवाणि नोत्पादविनाशवन्तीति यावद्। भवन्ति इति अनेन (त.सू.भा.५.३) समग्रकालाविकारिणी सत्ताख्यायते धर्मादीनाम् । तच्च नित्यलक्षणमुद्धट्टयति- तद्भावाव्ययं नित्यम् इति (त.सू ५.३०) यतो भावान्न व्येति न व्येष्यति तन्नित्यमिति भवतीति भावः । योसौ भवति स कर्ता द्रव्यं स च तस्मात्स्वरूपान्न विगमेन युज्यते योक्ष्यते वातो नित्यं प्रोच्यते। न कदाचित्सद्रूपतां परित्यक्ष्यतीत्यर्थः। [अवस्थितशब्दार्थः] [८८] अथावस्थितशब्दार्थं निरूपयति- नित्यावस्थितयोरभेदभ्रान्तिमपनयन्मा भूत् सङ्करोनयोः, अन्यन्नित्यलक्षणमन्यच्चावस्थितलक्षणमिति । अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति। (त.सू.भा५.३) नित्यत्वानुज्ञापेक्षया 'च'शब्दोपादानमवस्थितानि भवन्ति धर्मादीनि द्रव्याणि। तच्चावस्थानमेषां वाक्यान्तरेण निरूप्यते न कदाचित्पञ्चत्वं व्यभिचरन्ति । तद्भावाव्ययतायामियत्तैतेषां निश्चीयतेऽवस्थितशब्दोपादानात्पञ्चैव भवन्त्येतानि, न च न्यूनान्यधिकानि चेति सङ्ख्यानियमोऽभिप्रेतः। सर्वदा पञ्चास्तिकायात्मकत्वाज्जगतः कालस्य चैतत्पर्यायत्वादिति । नापि भूतार्थत्वं व्यभिचरन्त्येतान्यतोऽवस्थित इत्युच्यन्ते। अन्योन्यावेवं ै साधितायां सत्यामपि धर्मादीनि न स्वतत्त्वं भूतार्थत्वं वैशेषिकलक्षणमतिवर्तन्ते । तच्च धर्माधर्मयोः गतिस्थित्युपग्रहकारिते, नभसोऽवगाहदानव्यापारः, स्वपरप्रकाशिचैतन्यपरिणामो जीवस्य, अचैतन्यशरीरवाङ्मनःप्राणापानसुखदुःखजीवितमरणोपग्रहमूर्तत्वादि गुणान्वितः पुद्गलः। [अन्यः अवस्थितशब्दार्थः] [८९] अथवा असङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्तता चेति, तां न जातुचिदनादिकालप्रसिद्धिवशोपनीतां मर्यादामतिक्रामन्ति । निजलक्षणव्यतिकरो हि निर्भेदताहेतुः पदार्थानामतः स्वगुणमपहाय नान्यदीयगुणसम्परिग्रहमेतान्यातिष्ठन्ते । तस्मादवस्थितानीति अरूपाणि च, नैषां रूपमस्तीति। (त.सू.भा.५.३) न समुदायविशेषणमेतदरूपाणीत्यसम्भवाद् धर्माधर्माभ्रजीवेषु चतुर्व्वेव सम्भवत्यमूर्तत्वम्, न पुनः पुद्गलेष्वत एव प्रसक्तौ सत्यामुत्तरसूत्रेण निषेधः करिष्यते । चक्षुर्ग्रहणलक्षणं रूपं तदविद्यमानं येषां तान्यरूपाणीत्यरूपित्वाच्चक्षुषा नैतानि १. यहां पर सामीक्षिक की जगह असामीक्षिक पाठ होगा ? २. प्रथमसूत्रे ऽभिहितमभिधास्यते च त्रिसूत्र्याम्। त.सू.भा.सि. ३. अन्योन्यानुबन्धितायाम्। त.सू.भा.सि. ४. मूर्तत्वादि पुद्गलानाम्। त.सू.भा.सि.

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218