________________
२८
स्याद्वादपुष्पकलिका
द्रव्यास्तिकनयनिरपेक्षनिरूपणायामेकान्तवादः स्यात्स च बहुदोषव्रातत्वात् सामीक्षिका 'भिप्रायवदसमञ्जसः स्यात्। ननु चैवमेकनयनिरुपणा न जैनेन्द्रदर्शनप्रतिपूरणायालम्, सत्यमेतत् किञ्च द्रव्यास्तिकपर्यायास्तिकयोः प्रधानगुणभावविवक्षावशाद्वस्तुस्वतत्त्वमुपनीयते जिनाधिपैरन्यथा हीत्थं वस्तुप्रज्ञापना दुःकरा स्यादतः प्रज्ञापनेयम-भिन्नांशस्य वस्तुनो नरसिंहस्येव नरकेसरिशब्दभेदेन । तत्र हि द्रव्यास्तिकस्य प्राधान्यमाश्रित्येतरस्य च गौणभावं नित्यता प्रज्ञाप्यते। यथा चैतानि न युगलोपसङ्गृहीतानि तथा नयाधिकारे प्रवक्ष्यामि।
[नित्यत्वनिर्वचनम्]
[८७] | तामेव च ध्रौव्यांशद्रव्यास्तिकनयप्रज्ञापनामादर्शयितुमाह-नित्यानि भवन्ति (त.सू.भा.५.३) नित्यानि {नेर्धवेत्यब्(सि.६.३.१७)} = ध्रुवाणि नोत्पादविनाशवन्तीति यावद्। भवन्ति इति अनेन (त.सू.भा.५.३) समग्रकालाविकारिणी सत्ताख्यायते धर्मादीनाम् । तच्च नित्यलक्षणमुद्धट्टयति- तद्भावाव्ययं नित्यम् इति (त.सू ५.३०) यतो भावान्न व्येति न व्येष्यति तन्नित्यमिति भवतीति भावः । योसौ भवति स कर्ता द्रव्यं स च तस्मात्स्वरूपान्न विगमेन युज्यते योक्ष्यते वातो नित्यं प्रोच्यते। न कदाचित्सद्रूपतां परित्यक्ष्यतीत्यर्थः।
[अवस्थितशब्दार्थः]
[८८] अथावस्थितशब्दार्थं निरूपयति- नित्यावस्थितयोरभेदभ्रान्तिमपनयन्मा भूत् सङ्करोनयोः, अन्यन्नित्यलक्षणमन्यच्चावस्थितलक्षणमिति । अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति। (त.सू.भा५.३) नित्यत्वानुज्ञापेक्षया 'च'शब्दोपादानमवस्थितानि भवन्ति धर्मादीनि द्रव्याणि। तच्चावस्थानमेषां वाक्यान्तरेण निरूप्यते न कदाचित्पञ्चत्वं व्यभिचरन्ति । तद्भावाव्ययतायामियत्तैतेषां निश्चीयतेऽवस्थितशब्दोपादानात्पञ्चैव भवन्त्येतानि, न च न्यूनान्यधिकानि चेति सङ्ख्यानियमोऽभिप्रेतः। सर्वदा पञ्चास्तिकायात्मकत्वाज्जगतः कालस्य चैतत्पर्यायत्वादिति । नापि भूतार्थत्वं व्यभिचरन्त्येतान्यतोऽवस्थित इत्युच्यन्ते। अन्योन्यावेवं ै साधितायां सत्यामपि धर्मादीनि न स्वतत्त्वं भूतार्थत्वं वैशेषिकलक्षणमतिवर्तन्ते । तच्च धर्माधर्मयोः गतिस्थित्युपग्रहकारिते, नभसोऽवगाहदानव्यापारः, स्वपरप्रकाशिचैतन्यपरिणामो जीवस्य, अचैतन्यशरीरवाङ्मनःप्राणापानसुखदुःखजीवितमरणोपग्रहमूर्तत्वादि गुणान्वितः पुद्गलः।
[अन्यः अवस्थितशब्दार्थः]
[८९] अथवा असङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्तता चेति, तां न जातुचिदनादिकालप्रसिद्धिवशोपनीतां मर्यादामतिक्रामन्ति । निजलक्षणव्यतिकरो हि निर्भेदताहेतुः पदार्थानामतः स्वगुणमपहाय नान्यदीयगुणसम्परिग्रहमेतान्यातिष्ठन्ते । तस्मादवस्थितानीति अरूपाणि च, नैषां रूपमस्तीति। (त.सू.भा.५.३) न समुदायविशेषणमेतदरूपाणीत्यसम्भवाद् धर्माधर्माभ्रजीवेषु चतुर्व्वेव सम्भवत्यमूर्तत्वम्, न पुनः पुद्गलेष्वत एव प्रसक्तौ सत्यामुत्तरसूत्रेण निषेधः करिष्यते । चक्षुर्ग्रहणलक्षणं रूपं तदविद्यमानं येषां तान्यरूपाणीत्यरूपित्वाच्चक्षुषा नैतानि
१. यहां पर सामीक्षिक की जगह असामीक्षिक पाठ होगा ?
२. प्रथमसूत्रे ऽभिहितमभिधास्यते च त्रिसूत्र्याम्। त.सू.भा.सि.
३. अन्योन्यानुबन्धितायाम्। त.सू.भा.सि.
४. मूर्तत्वादि पुद्गलानाम्। त.सू.भा.सि.