SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका गृह्यन्ते। न तु चक्षुषैषामगृह्यमाणत्वमरूपत्वे कारणमुच्यते, परमाण्वा-दिभिरनेकान्तता तस्मादरूपे ग्रहणं द्रव्यस्वतत्त्वनिपिनार्थं मूर्तिमत्त्वनिवृत्तिप्रकाशनाय, प्रात्ययिकोत्पादवत्त्वं तु भाज्यमङ्गुल्याकाशादिवत्, स्वतस्तु नैषां रूपमस्तीति। [तत्त्वार्थसूत्रगतरूपशब्दार्थः] [९०] किं पुना रूपं नामेत्यत आह-रूपं मूर्तिः (त.सू.भा.३.५) मूर्तिर्हि रूपादिशब्दाभिधेया। सा च रूपादिसंस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा व्यभिचारदर्शनात्, सर्वतः परिमितत्वे लोकस्यात्मनोऽपि मूर्तिमत्त्वप्रसङ्गः, परिमितत्वं चावश्यमभ्युपेयं विशिष्टसंस्थानत्वादिभिर्लोकस्य, अतो रूपमेवाव्यभिचारित्वात् मूर्तिरुच्यते। [९१] अन्येऽभिदधति- रूपशब्दो नीलादिवर्णाभिधायी समस्ति। अस्ति च दीर्घादिसंस्थानप्रतिपादनपरः तद्यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यो रूपं मूर्तिरिति। एवंविधमूर्त्याश्रिताश्च स्पर्शादयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्त्यन्यथा वान्ध्येयव्योमकुसुममण्डूकशिखण्डकल्पाः स्युरित्यत्र पक्षे धर्माधर्मसिद्धसंस्थानैरनेकान्तस्तस्माद् रूपमेव मूर्तिरस्तु। (शं) एवं तर्हि गुणमात्रं मूर्तिशब्दस्य विषयः प्रसक्तो, न च रूपमेव मूर्तिरिति, (स) उच्यते, द्रव्यास्तिकनयावष्टम्भात्सकलमिदं निरूप्यते, तत् किमाश्वेव विस्मृतं भवतो। न खलु रूपादयस्तस्य केचिन्मूर्ता विविक्ताः सन्ति। सैव हि मूर्तिव्यस्वभावाच्चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते। अत एव पुनराह- सहचाराव्यभिचारप्रदिदर्शयिषया-मूर्त्याश्रयाश्च स्पर्शादय इति। (त.सू.भा.५.३) न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचारित्वात्। यत्र रूपपरिणामः तत्रावश्यंतया स्पर्शरसगन्धेभ्योऽपि भाव्यमतः सहचरमेतच्चतुष्टयमतः परमाणावपि विद्यते। न च परमाणवश्चर्तुर्गुणादिभेदभाजः सन्ति, सर्वेषामेकरूपत्वाद्। इयांस्तु विशेषः किञ्चिद् द्रव्यमुत्कटं गुणपरिणाममासाद्य तमेव त्यजति। यथा लवणहिङ्गुनी संहतिपरिणामसामर्थ्यवती लोचनस्पर्शनग्रहणगोचरतामुपेत्य जले विलीने सती रसनघ्राणग्रहणयोग्यतामागच्छतः। न च वर्णस्पर्शी तत्र सम्भवन्तावपि पुनर्ग्रहीतुं शक्यौ, परिणामविशेषत्वाद। एवं पार्थिवाप्यतैजसवायवीयाणवो एकजातीयाः कदाचित्काञ्चित्परिणतिं बिभ्रतो न सर्वेन्द्रियग्राह्या भवन्ति। अतो रूपरसगन्धस्पर्शा एव विशिष्टपरिणामानुगृहीताः सन्तो मूर्तिव्यपदेशभाजो भवन्ति। [९२] अन्येऽन्यथा वर्णयन्ति- मूर्तिशब्देन रूपमेवाभिधीयते। ये च रूपमाश्रित्य वर्तन्ते स्पर्शादयस्तेऽपि मूर्तिशब्दवाच्याः, तदेतदयुक्तम्, रूपो मूर्तिर्मूर्त्याश्रयाश्च स्पर्शादय इति। द्रव्याश्रया निर्गुणा गुणाः (त.सू.५.४०) इति वक्ष्यते। द्रव्यमाश्रयो भवति स्पर्शादीनाम्, न पुना रूपमुपघ्नतयेष्यतेति। अत्रापि पर्यायनयसमाश्रयणादुच्यते- न द्रव्यमस्ति, रूपादिग्रहे द्रव्यबुद्ध्यभावादतो रूपादय एव परस्परसमाश्रयेण वर्तमानाः सेनावनादिवत् मूर्तिशब्दवाच्या इति। न ह्येकः पदातिः करी वा सेना किन्तु परस्परसमाश्रयेण वर्तमाना तुरगगजस्यन्दनपदातयः सेनेत्येवं न रूपमेव मूर्तिः, किन्तु समुदाय इति। अतो यथावर्णितमेवेति नित्यावस्थितान्यरूपाणीति विशेषविधानेन सामान्येन लक्षणं प्रोक्तम्।।७४॥७५॥७६॥ १. यहां पर असर्वगतस्य पाठ अधिक संगत लगता है। २.यहां गणमात्र की जगह रूपमात्र शब्द संगत लगता है। ३. यहां उपघ्नतया पाठ चिंतनीय है। ४. मेवास्तामिति भाष्यम्। त.सू.भा.सि.
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy