________________
३०
[मूर्तत्वगुणानुसारिपुद्गललक्षणम्।
[९३] अथ मूर्तिमादृत्य लक्षणमारभ्यत इत्याह
[मूल] मूर्तत्वगुणमादृत्य पुद्गला एव रूपिणः । विशेषगुणसंयुक्ता मूर्ताः सन्ति रसादयः॥७७॥
(व्याख्या) अत्र मूर्तत्वमुख्यगुणभावमालम्ब्य रूपिणः पुद्गला एव भवन्ति। पुद्गले रूपमेव विशेषगुणोऽस्ति, शेषा रसादयो गुणा रूपान्तरस्था स्तिष्ठन्तीत्यर्थः । सामान्यश्रुतिनिषेधमुखेनालाभादागृहीतविशेषत्वाद् अपवादस्य नित्यत्वावस्थितत्वाभ्यनुज्ञानद्वारेणारूपत्वमात्रप्रतिषेधोऽत्र विवक्षितः। अरूपिणः पुद्गला न भवन्ति, किं तर्हि ? रूपिणः, तत्स्वभावाव्ययत्वाच्च नित्यता सदा समस्त्येव रूपादिमत्तया वाव्यतिकीर्यमाणस्वभावतया अवस्थितत्वं पुद्गलानाम्।
स्याद्वादपुष्पकलिका
[नित्यतानिर्वचनम्]
[९४] ननु चोत्पादविनाशवत्त्वादनित्यतैवातिस्पष्टैषां तत्कथं तद्विरोधिनी नित्यतावबुध्यत इति, अत्रोच्यते, नित्यता द्विविधा प्रवचनविद्भिराख्यायते - अनाद्यपर्यवसाननित्यता, सावधिनित्यता च । तत्राद्यालोकसन्निवेशवदनादितः पूर्वापरावधिविभागा सन्तत्यव्यवच्छेदेन स्वभावमजहति तिरोहितानेकपरिणतिप्रसवशक्तिगर्भा भवनमात्रकृतास्पदा प्रतीतैव। अपरा श्रुतोपदेशनित्यता उत्पत्तिप्रलयत्वेऽप्यवस्थानात् पर्वतोदधिवलयाद्य-वस्थानवच्च सावधिका । अनित्यतापि द्विविधा - परिणामानित्यता उपरमानित्यता च । तत्र परिणामानित्यता नाम मृत्पिण्डो विस्रसाप्रयोगाभ्यामनुसमयमवस्थान्तरं प्रागवस्थाप्रच्युत्या समश्नुते। उपरिमानित्यता तु भवोच्छे-दवदपास्तगतिचतुष्टयपरिभ्रमक्रियाक्रमपर्यन्तवर्तिनी परिप्राप्तावस्थानविशेषरूपा, नात्यन्ताभावभाविनीति। तत्र परिणामानित्यतया पुद्गलद्रव्यमनित्यमित्याचक्ष्यते तद्भावाव्ययतया च नित्यम्, उभयथा हि दर्शनान्न च विरोधोऽस्ति कश्चिदित्येतत्प्रपञ्चतः प्रतिपादयिष्यते परस्ताद्।
['रूपिणः पुद्गलाः' इति सूत्रस्य विवरणम् ।
[९५] उभयमेव वावस्थामास्थाय वस्तु सकलां वास्तवीं धियमाधिनोति, अन्यथाङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवन्न प्रधानाराधनसाधीयसीं बुद्धिमादध्याद् अतिविकलत्वात्। प्रधानोपसर्जनतया तु कदाचित् किञ्चिद्विवक्ष्यते, शिबिकावाहकयानेश्वरयानवद्। अतः प्रत्यक्षप्रमाणप्रसिद्धपदार्थस्वरूपेणातीवायासयन्ति बुद्धिमात्मवन्तः तस्मान्नित्यानित्ययोः आस्पदमेकममी पुद्गला इति न किञ्चित्कस्यचिद् बाध्यते। ते च रूपवन्त इति। एतदेवमनुश्रियते'। पुद्गला एव रूपिणो भवन्तीत्यादि । पूरणाद्गलनाच्च पुद्गलाः परमाणुप्रभूतयोऽनन्तान-न्तप्रदेशस्कन्धपर्यवसानास्त एव रूपवत्ताम् अनन्यसाधारणीमनेकरूपपरिणतिसामर्थ्यापादितसूक्ष्मस्थूलविशेष-प्रकर्षाप्रकर्षवर्तितां बिभ्रति, न धर्मादिद्रव्यविशेषा इति रूपवत्त्वमत्रावधार्यते । तद्धि न जातुचिदतिचिरपरिचितपरमाणु-द्व्यणुकादिक्रमवृद्धद्धव्यकलापमुज्झति। सामर्थ्याच्च पुद्गला अपि न तां विहाय वर्तन्तेऽतः पुद्गला एव रूपिण इति सुष्षूच्यते।
१. यहां पर रूपान्तरस्था की जगह रूपान्तःस्था पाठ उचित लगता है।
२. विशेषतः । त.सू.भा.सि.
३. यहां पर पूर्वापरावधिविभागा की जगह पूर्वापराद्यविभागा पाठ संगत लगता है।
४. नित्यतावद। त.सू.भा.सि.
५. अधुना भाष्यमनुश्रियते । त.सू.भा.सि.