________________
स्याद्वादपुष्पकलिका
रूपं मूर्तिरिति च प्राक्प्रतिपादितमतस्तदनुसन्धानाभिप्रायेणाह- रूपमेषामस्त्येषु वास्तीति रूपिण इति। (त.सू.भा.५.४)।
[९६] अथवा तुल्य एव मत्वर्थीयोऽयमुभयत्राभेदो भेदश्च पर्यायनयापेक्षो द्रव्यास्तिकनयापेक्षश्च योजनीयः। न मूर्तिव्यतिरेकेण पुद्गलाः सन्ति, भिन्नदेशसम्बन्धित्वेनानुपलब्धेः, व्यतिरेकिणोऽपि गमकत्वादसन्निहितविपक्षकस्येत्यभेदः। तथा यदिदं चन्दनमुपलभ्यते तस्य शुक्लं रूपम्, तिक्तरसः, सुरभिगन्धान्वितः शीतलस्पर्श इति। यश्चैष प्रत्यक्षेण प्रत्यक्षस्य व्यपदेशः सोऽर्थान्तरे दृष्टः, तद्यथास्य ब्राह्मणस्यायं कमण्डलुरिति।
[द्रव्यगुणयोर्भेदाभेदः] [९७] ननु चोपन्यस्तं निदर्शनबलेन द्रव्यमेव द्रव्यादर्थान्तरमिति न गुणेभ्यो द्रव्यमित्यत्रोच्यते, योऽयमुपलभ्यस्य समस्तैरुपलब्धैर्व्यपदेशः सोऽर्थान्तरं गमयति। तच्च द्रव्यं गुणः क्रिया वा स्यादिति कोऽपरितोषः? (प्र.) सेनावनादिवदनेकान्त [इति चेद्'], दृष्टो ह्यनर्थान्तरेऽपि व्यपदेशः, सेनायाः कुञ्जरः सहकारः काननस्येति (चेद्), अत्रोच्यते, न खलु प्रसिद्धमनर्थान्तरत्वं सेनाकाननयोर्यस्मादनियतदिग्देशसम्बन्धिषु करिनरतुरगस्यन्दनेषु परस्परप्रत्यासत्तिजनितोपकारेष्ववधारितानवधारितेयत्तेषु बहुत्वसङ्ख्यैव सेना, तथा काननमपि। एतच्च द्वयमप्यर्थान्तरमेव। यूषपङ्क्त्यादयोऽपि ह्यर्थान्तरतयैवं वक्तव्या। यूषो ह्युत्पन्नपाकजानां द्रव्याणां कालविशेषानुग्रहे सति द्रव्यान्तरसंपृक्तानां पाकजोत्पत्तौ यः संयोगः स यूष इत्याख्यायतेऽर्थान्तरभूतश्च, पङ्क्तेरप्येकदिग्देशसम्बन्धिषु परस्परप्रत्यासत्त्युपकृतेष्ववधारितानवधारितेयत्तकेषु भिन्नाभिन्नजातीयेष्वाधारेषु वर्तमाना बहुत्वसङ्ख्या एवाभिधीयते इति। तस्मात्सापेक्षमिदं नयद्वयं वस्तुनः सद्भावमापादयति, नैकान्त इत्यस्यार्थस्योद्भासनार्थमकरोत् पुद्गलेषु मूर्तिर्भेदाभेदवर्तिनी विवक्षावशादिति॥७७॥
[धर्मादीनामेकानेकद्रव्यत्वम्] [९८] अथ पुद्गलानां विशेषाभिधित्सया सूत्रमाह[मूल] आकाशादेकद्रव्याणि धर्मादीनि भवन्ति च। तथैवानेकद्रव्याणि विद्यन्ते जीवपुद्गलाः॥७८॥
(व्याख्या) आ आकाशादाधाराधेयभावात् क्रममुद्दिश्याकाशाभिव्याप्तिप्रचिकाशयिषया आ आकाशादित्युवाच। धर्मादीनीति। प्रथितप्रतिशिविष्टानुपूर्वीप्रदर्शनं धर्माधर्माम्बराणि एकद्रव्याण्येव भवन्तीत्यर्थः। नैषां समानजातीयानि द्रव्यान्तराणि सन्ति, अविलक्षणोपकारात्। धर्माधर्माकाशानां च गतिस्थित्यवगाहोत्पत्त्या प्रभावित उपकारः, गत्यादित्रययुक्तं हि वस्तु अर्थक्रियासमर्थमुपेयतेऽनेकान्तवादिभिः। धर्मादिद्रव्याणां च गत्यादय उपकाराः स्वस्थाने युक्त्या प्रतिपादयिष्यन्ते। एकशब्दोऽसहायार्थमभिधत्ते, यथा परमाणुः परमाण्वन्तरेण सद्वितीयः, आत्मा
१. एषामिति पुद्गलानां परमाणु-द्व्यणुकादिक्रमभाजामुक्तलक्षणं रूपं मूर्तिः सा विद्यते इति रूपिणः षष्ठीप्रदर्शनात्तु भेदविवक्षावशपरिप्रापितं द्रव्यगुणयोर्नानात्व-मध्यवसातव्यम्, अभेदविवक्षोपनीतं च द्रव्यपर्यययोरैक्यम्, अतस्तत्प्रदर्शनाय व्यापकाधिकरणलक्षणा सप्तमी विवृण्वता आचार्येणोपात्ता। त.सू.भा.सि. २. पटुर्गन्धः। त.सू.भा.सि., ३. यहां पर इति चेद् ये पद काननस्येति के बाद अधिक सुसंगत लगते है। ४. भाष्यकारो विभक्तिद्वयन विग्रहं अतोऽयं वाक्यार्थः। त.सू.भा.सि. ५. अध्यायादिसूत्रोपात्त। त.सू.भा.सि. ६. चकारस्त्वर्थः। त.सू.भा.सि.