________________
स्याद्वादपुष्पकलिका
चात्मान्तरेण ज्ञानसुखदुःखजीवनादिभेदभाजा, न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम्, अधर्मव्योमनी चैवमाविष्कार्य। द्रव्यं गुणपर्यायवदित्युक्तम् । तदनेन स्वगतधर्मपरिणामप्राप्तिरापाद्यते मुक्तस्येव, अन्यथा गुणपर्यायशून्यं द्रव्यमेव न स्याद्, व्योमोत्पलादिवद्। एवशब्देन नियम्यते एकद्रव्याण्येवैतानि = तुल्यजातीयद्रव्याण्येवैतानि, अतुल्यजातीयद्रव्याभावात्। नियमेन चेष्टार्थसिद्धिं प्रदर्शयति- पुद्गलजीवास्त्वनेकद्रव्याणीत्यादि। सम्भाव्यानेकतया पुद्गलात्मनो विशेष्यन्ते, तथा शब्देन। इतिकरणं, यस्मादर्थे यस्मात्तुल्यजातीयभूयस्त्वमेषां तस्मादनेकद्रव्याणि परमाणु प्रभृतीन्यनन्ताणुकस्कन्धप्रमाणानि । भूजलज्वलनानिलतरुद्वित्रिचतुःपञ्चेन्द्रियात्मानश्चेत्यर्थः॥७८॥
धर्मादीनां सक्रियत्वनिष्क्रियत्वे| [९९] पुनस्तेषां विशेषमाह[मूल] धर्मादयो नि:क्रियाणि जीवपुद्गलसक्रिये। प्रदेशावयवव्यूहैः प्रोच्यन्ते कायसञ्जकाः॥७९॥ [मूल] परमाणून्यवयवा सुस्कन्धानां निरन्तरम्। स्कन्धाणुघातभेदेभ्यः प्रदेशाः सन्त्युत्पत्तितः॥८॥
(व्याख्या) धर्मादीन्यम्बरान्तानि निःक्रियाणि = क्रियारहितानि भवन्तीत्यर्थः। करणं = क्रिया द्रव्यस्य भावस्तेनाकारेण स चैषां न समस्ति, यतो धर्माधर्माकाशान्यनासादितातिशयान्येव सर्वदा पूर्वापरावस्था-भेदमनाजिहानानि किल लक्ष्यन्ते। तदेतदपव्याख्यानमवधीरितसमयसद्भावैरकारि, यतः सर्वमेव सदुत्पाद-व्ययध्रौव्यधर्मात्मव्यवस्थां नातिक्रामते। तदेतेऽपि धर्मादयो यदि सत्तां नातिलङ्घयन्ति, भवितव्यं तदा तर्हि क्रिययैषामुत्पादविगमलक्षणया, जीवानामिव। अथ सत्तातिक्रमेणाभ्युपेयन्ते तदानीं द्रव्यतैवावहीयते गगनेन्दी-वरादिवत्। जिनेश्वरोऽपि व्याजहार प्रश्नत्रयमात्रेण द्वादशाङ्गप्रवचनार्थं समग्रवस्तुसङ्ग्राहित्वात्प्रथमतः किल गणधरेभ्यः-उवए वा विगमे वा धुवेति वा तदेतदशेषं विशीर्यते। ततो द्रव्यत्वात् मुक्तात्मवदुत्पादव्ययस्थिति-मत्त्वमनुमितिहेतुकम्। तथा चावधृतसिद्धान्तहृदयेन विशेषावश्यककारेण जिनभद्रसूरिणा नमस्कारनिर्युक्तौ शब्दानित्यत्वप्रतिपादनेच्छयावाचि
अवगाहणादयो णण गणत्तओ चेव पत्तधम्मव्व। उप्पायाइसहावा तह जीवगणाविको दोसो?॥ अवगाढारं व विणा कुतोऽवगाहो त्ति तेण संजोगो। उप्पाई सोऽवस्सं गच्चुवगारादओ चेवं॥ ण य पज्जवओ भिन्नं दव्वमिहेगंतओ जओ तेणं। तण्णासम्मि कहं वा नहादओ सव्वहा णिच्चा?॥ (वि.आ.भ.२८२१-२३) अवगाहनादयो ननु गुणत्वतश्चैव पत्र(प्राप्त)धर्म इव। उत्पादादिस्वभावास्तथा जीवगुणा अपि को दोषः ?॥ अवगाढारं च विना कुतोऽवगाह इति तेन संयोगः। उत्पादी सोऽवश्यं गत्युपकारादयश्चैवम्॥ न च पर्यायतो भिन्नं द्रव्यमत्रैकान्ततो यतस्तेन। तन्नाशे कथं वा नभआदयः सर्वथा नित्याः।।]
अयमेतदर्थोऽवधार्यः गुणत्वात्पत्रनीलतावत् तथा नभोऽवगाहोऽप्यनित्यः। नभसोऽवगाहः स्वलक्षणमुपकार: स चावगाढामन्तरेण जीवादिकं नाभिव्यज्यत इति। अवगाढजीवादिसंयोगमात्रमवगाह इति। संयोगश्चोत्पा
१. वक्ष्यते। त.सू.भा.सि. २. तुल्यजातीयद्रव्याभावात्। त.सू.भा.सि. ३. अवसानानि। त.सू.भा.सि. ४. यहां पर परमाणुनि की जगह परमाणवस्त्ववयवा पाठ होना चाहिए। उत्तरार्ध में भी कुछ त्रुटि लगती है। ५ अवगाहनादयोऽनित्या। त.सू.भा.सि.