________________
स्याद्वादपुष्पकलिका
दादिसंयुज्यमानवस्तुजन्यो व्यङ्गुलसंयोगवद्। तथा चावगाह आकाशस्य, एवं गतिस्थित्युपकारावपि धर्माधर्मयोर्गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावौ इति।
[१००] कथं तदा निःक्रियत्वमेषामत आह- जीवेत्यादि। जीवपुद्गलास्तु क्रियावन्तः (त.सू.भा) ५.६ पद्गलजीवास्तु क्रियावन्तः) क्रियेति कथम्? उच्यते, पुद्गलजीववर्तिनी या विशेषक्रिया देशान्तरप्राप्तिलक्षणा
प्रतिषेधोऽयं नोत्पादादिसामान्यक्रियायाः। पदलास्त्वितो देशान्तरमास्कन्दन्तः समपलभ्यन्ते जीवाश्चेत्यतस्ते क्रियावन्तः। अमुमेवार्थं धात्वन्तरेण प्रसिद्धदेशान्तरप्राप्त्यर्थेन प्रकाशयति- गतिः क्रियाशब्देनाभिधित्सिता विशिष्टैव न क्रियासामान्यम. धर्मादय: पर्वावष्टब्धप्रदेशान्तरमपि विचलितमनत्सहमानाः कथमेवंविधक्रियाधारतां प्रतिपत्स्यन्ते ? तस्मान्निष्क्रियाणीति निरवद्यं दर्शनम्।
[धर्मादीनां सप्रदेशाप्रदेशत्वविचारणा] [१०१] अथाधिकृतधर्मादिद्रव्याणां सर्वेषामेव प्रदेशावयवेयत्ताविष्करणार्थमिदमुच्यते- प्रदेशेत्यादि सूत्रे यस्मादजीवकाया इत्यत्र कायग्रहणं प्रदेशावयवबहुत्वार्थमिति व्याहृतम् (त.सू.भा.५.१) ततः क एषां धर्मादीनां जीवान्तानां प्रदेशावयवानां व्यूहः समुदायस्तेषां कायसञ्ज्ञाः प्रोच्यन्ते = निगद्यन्त इति। अत्रेति। प्रदेशावयवनियमप्रश्ने यथागममधीयते मया। एष अभिप्रायः प्रश्नयितुः- अमूर्तेषु धर्मादिष्ववयवव्यवहारो नास्ति, मूर्तेषु चान्त्यभेदावस्थेषु परमाणुषु। अवयवव्यवहारो हि मूर्तेष्वेव प्रतीयते इत्यतो नियमोऽभिधेयः के एषामवयवा इति ? सर्वेषां मूर्तानाममूर्तानां च प्रदेशाः सन्ति = विद्यन्ते संव्यवहारार्थम्। प्रदिश्यन्ते इति प्रदेशास्तत्र धर्माधर्माभ्रजीवानां द्रव्यपरमाणुमूर्तिव्यवछिन्नाः प्रदेशाः। यथाह- निरवयवो खलु देशः स्वस्य क्षेत्रप्रदेश इति', पुद्गलस्य तु निरंशो द्रव्यात्मना भागः प्रदेश इत्युच्यते, न तु तस्यान्यः प्रदेशोऽस्ति अतः परमाणोरन्यत्र इत्युक्तम्। इदं च द्रव्यांशं प्रदेशध्वनिवाच्यमाधाय चेतसि भाष्यकारेणोक्तम्- अन्यत्र परमाणोः प्रदेशाः सन्ति, न पर्यायांशं रूपादिलक्षणम्। यतः प्रशमरतावनेनैवोक्तम
परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः॥ (२०८)
अत एव च भेदः प्रदेशानामवयवानां च ये न जातुचिद्वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः। ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इत्यत आह- परमाणून्यवयवा इत्यादि। विशेषार्थस्तु शब्दः विस्रसाप्रयोगाभ्यामवयूयन्त इत्यवयवाः पृथक्क्रियन्ते इति यावत्। ते च स्कन्धानामेव व्यणुकादिक्रमवता-मनतिक्रान्तरूपादिभेदानाम्। 'एव' शब्दो नियामकः, धर्माधर्माकाशजीवानां न सन्त्यवयवाः, स्कन्धानामेव भवन्ति। कुत एतदेवम्? इत्याह- सङ्घातभेदजाः स्कन्धाः। वियुतानामवयवानां संहतिपरिणतौ स्कन्धा जायन्ते संहतानां च भेदपरिणतौ व्यणुकादयः सम्भवन्ति। परमाणवस्तु भेदादेवावयूयमाना अवयवास्तस्मादवयवव्यवहारः पुद्गलद्रव्यविषय एवाध्यवसेयः॥७९॥८०॥
१. क्रियेति गतिकर्माह सूत्रकारः। त.सू भा. २. अध्यायादि। त.स.भा.सि. ३. या त.स.भा.सि. ४. सर्वेषामवयवाः सन्ति अन्यत्र परमाणोः अवयवास्तु स्कन्धानामेव। त.सू.भा ५. दृष्ट। त.सू.भा.सि. ६. सर्वेषां प्रदेशाः सन्त्यन्यत्र परमाणोः (त.सू भा.५.६) ७. यह पंक्ति समझ में नहीं आती। ८. सङ्घातभेदेभ्य उत्पद्यन्ते। (त.सू ५.२६)