________________
३४
स्याद्वादपुष्पकलिका
[धर्मादिद्रव्याणां प्रदेशावयवनियमः ]
[१०२] अथावसितप्रदेशावयवनियमो धर्मादिद्रव्यप्रदेशानां इयत्तामाविष्कुर्वन्नाह
[मूल] तत्र धर्माधर्मयोश्च प्रदेशाः सन्त्यसङ्ख्यकाः। क्षेत्रे समग्रसूक्ष्मः स्यात्परमाणो (र)-वगाहकः ॥८१॥ (व्याख्या) तत्रेत्यादि। तेषु धर्मादिषु पञ्चसु धर्माधर्मयोरसङ्ख्येयाः प्रदेशाः धर्माधर्मयोः प्रत्येकमसङ्ख्येयाः प्रदेशा भवन्ति । ते च लोकाकाशप्रदेशमाना सङ्ख्येयानन्तसङ्ख्याद्वयव्युदासेन असङ्ख्यका निगद्यन्ते। ननु कीदृशार्थः प्रदेश: ? प्रकृष्टो देशः प्रदेशः परमनिरुद्धो निरवयव इति यावत्। अपेक्षाप्रयोजनः अपेक्षानिवृत्तो वा आपेक्षिकः । स च स्वसिद्ध एवार्वाग्दर्शनैरस्मदादिभिः अनेनाभ्युपायेन प्रज्ञाप्यमान आपेक्षिक उच्यते। सर्वेषां धर्माधर्माकाशजीवानामापेक्षिकत्वे सत्यपि सूक्ष्म एव न स्थूलः, ततोऽपि सूक्ष्मतरः परमाणोरवगाहः। द्रव्यपरमाणुपरिग्रहेण प्रदेशपरमाणोरवगतिः क्रियते। तदेतदुक्तं भवति- तन्मूर्तिमात्राक्रान्तो देशः प्रदेश उच्यते ।
अवगाहो व्यवस्थानमाक्रान्तिरध्यासनमिति पर्यायाः, न पुनरिहावगाहो गतिः । नन्वेवमाकाशस्यैव प्र निरूपितः स्यान्न धर्मादीनाम्, यतोऽवगाहोऽम्बरस्य लक्षणम्, अस्तु, को दोषः ? प्रदेशलक्षणं तावन्निर्ज्ञातम्। लोकाकाशे च यत्राकाशप्रदेशः स च यावांस्तत्रैव धर्मास्तिकायप्रदेशोऽवगाढः स च तावानेवेत्येवमधर्मप्रदेशोऽपि तत्र वाच्योऽतस्तुल्यप्रमाणत्वादेकेनैव प्रदेशपदप्रघट्टेन प्रदेशनिरूपणम्। तत्राकाशमवकाशदाने व्याप्रियते। गति-परिणतौ धर्म उपकारकः स्थितिपरिणामे चाधर्मद्रव्यमुपकरोति । ततः सर्वप्रदेशानामिदमेवापेक्षणीयमव्याहतं लक्षणम्। इतिशब्देन' उपसंहरति- धर्माधर्मयोरीयती प्रदेशसङ्ख्येति॥८१॥
|जीवद्रव्यस्य प्रदेशनियमः ]
[१०३] अथासङ्ख्येयप्रदेशे प्रस्तावमुपजीवन् जीवस्यापि तत्तुल्यप्रदेशनियतत्वादतो जीवप्रदेशनियम -
गाथामाह
[मूल] जीवैकं द्रव्यमादृत्य प्रदेशाः सन्त्यसङ्ख्यकाः । तथैव लोकाकाशस्य गगनस्य त्वनन्तकाः॥८२॥
(व्याख्या) जीवद्रव्यस्यैकजीवस्यासङ्ख्येयाः प्रदेशा भवन्ति । तथैव = एवं लोकालोकाभ्यामम्बरो द्विधा। तत्र लोकाकाशस्य असङ्ख्येया प्रदेशाः, तथालोकाकाशस्यानन्ताः प्रदेशाः, गगनस्य केवलाकाशद्रव्यस्यानन्ताः प्रदेशाः सन्तीत्यर्थः। जीवो ज्ञानदर्शनोपयोगस्वभावः । स कदाचित्सामान्येन निर्दिश्यते जीव इत्यनेन समग्रनरनारकादिभेदः समागतः गौशब्दवत्समस्तस्वभेदाक्षेपी। कदाचित् प्रतिविशिष्टोपाधिव्यवच्छिन्नो व्यक्तिपदार्थाश्रयणेन । तत्रैकशब्देन सर्वजीवराशिव्यवच्छेदमादर्शयति एकजीवस्यैकस्या व्यक्तेरिति । चशब्देनासङ्ख्येयप्रदेशता-मात्मन्यनुसन्धत्ते, प्रसिद्धधर्मादिक्रमोल्लङ्घनाभिधानं तुल्यप्रदेशाख्यानलाघवार्थम्। एकयोगकरणाच्चोन्नीयते इत्यभिप्रायः। सङ्कोचविकासस्वभावास्तुल्येऽप्यसङ्ख्येयप्रदेशत्वे जीवप्रदेशाश्चर्मादिवत्, धर्माधर्मयोस्तु सततमेव विततावस्थिताः, ते च सङ्कोचविकासस्वाभाव्याज्जातुचिन्निकृष्टकुन्थुविग्रहग्राहिणः कदाचित्तामेव सङ्ख्याम-जहन्तः स्थूलं करिणः शरीरमाददते विकासित्वादिति ।
१. यहां पर परमाणोरवगाहकः में एक अक्षर छंद की दृष्टि से अधिक है।
२. त.सू.भा.५.७
३. इत्याक्षिप्तसकलनारकादिभेदः गौ..। त.सू.भा.सि.
४. सूत्रकाराभिप्रायः । त.सू. भा. सि.