________________
स्याद्वादपुष्पकलिका
[आकाशद्रव्यस्य प्रदेशनियमः ]
[१०४] आकाशस्यापि यथोक्त-द्रव्यवत्प्रदेशनियमं विधित्सुराह - तथैवेत्यादि । अत्र न ह्यलोके जीवादयो द्रव्यावगाढास्तिष्ठन्ति। तदभावादाकाशो निष्फलरूपोऽस्ति । तज्ज्ञाः सञ्ज्ञैवेयमनादिकाला द्रव्यान्तरस्यालोकाकाश इति वदन्ति धर्माधर्मादिसञ्ज्ञावत्।
३५
[१०५] अन्ये त्वेवं मन्यन्ते । तस्याप्यवगाहदानशक्तिरस्ति, सा त्ववगाहकाभावान्न व्यज्यते। यदि स्यादवगाहकं तत्र व्यापारं यायात्तदवगाहपरिणत्या, न त्वस्ति, तस्मात् तदप्यवगाहदानशक्तियुक्तत्वादाकाशम्।
[१०६] अपरे पुनरुपचारमाचरन्ति-आकाशवदाकाशं शुषिरदर्शनादिति, एतदप्यसत्, सिद्धान्तापेतत्वात्। [आकाशस्य व्ययोत्पादौ ।
[१०७] अथ ये केचिदेवं निगद्यन्ते व्ययोत्पादौ न स्वतो व्योम्नः, किन्तु परप्रत्ययाज्जायेते, अवगाहकसन्निधानासन्निधानायत्तावुत्पादव्ययाविति तेषां कथमलोकाकाशे ? अवगाहकाभावाद्, अर्द्धवैशसं च सतो लक्षणं स्याद्, व्यापि चेष्यते स्थित्युत्पादव्ययमित्यत्रोच्यते, य एवं महात्मानस्तर्कयन्ति स्वबुद्धिबलेन पदार्थस्वरूपंौं विदुषः पृच्छनीयोऽस्ति - कथमेतत् ? वयन्तु विस्रसापरिणामेन सर्ववस्तूनामुत्पादादित्रयमिच्छामः, प्रयोगपरिणत्या च जीवपुद्गलानाम् । इत्थन्तावदस्मद्दर्शनमविरुद्धसिद्धान्तसद्भावम्, अस्मदुक्तार्थानुगुणमेवेति। ततः आकाशमविशिष्टमभिधित्सितं ततोऽनन्ततत्प्रदेशता समीचीना भवेद्। विभाग' एवं जीवाजीवाधारक्षेत्रो लोकस्ततः परमलोकः। अतः समग्राम्बरस्यानन्ता अपर्यवसाना इत्यर्थः॥८२॥
[पुद्गलप्रदेशसङ्ख्या]
[१०८] अथ पुद्गलप्रदेशसङ्ख्यागाथामाह
[मूल] सङ्ख्यासङ्ख्यानन्तकाश्च पुद्गलानां प्रदेशकाः । भवन्त्यणुरप्रदेशो मध्याद्यभावतः खलु ॥८३॥ (व्याख्या) पुद्गलानां प्रदेशाः सङ्ख्येया असङ्ख्येया अनन्ताः सन्ति। अणुः = परमाणुरादिमध्याद्यभावेन प्रदेशाभावोऽस्तीत्यर्थः। खलु इत्यनेन लोकाकाशे क्षेत्रैकप्रदेशे अवगाहो भवतीत्यर्थः । पुद्गलानामित्यादि। पूरणगलनपरिणतिलब्धसञ्ज्ञकाः पुद्गलाः परमाणूपक्रमा अचित्तमहास्कन्धपर्यवसाना विचित्ररूपादिपरिणतयस्तेषां प्रदेशाः सम्भवन्तः सङ्ख्येयादयो भवन्ति । सङ्ख्येयपरमाणूपचितः स्कन्धः सङ्ख्येयप्रदेशः, एवमितरावपि स्वसङ्ख्यावच्छिन्नाणुघटितावसङ्ख्येयानन्तप्रदेशौ वाच्यौ।
[परमाणोः अप्रदेशत्वस्थापनम्।
नन्वणुरपि पुद्गलशब्देनाक्षिप्तः पूरयति गलति च, तस्य चानन्तरपदेन सङ्ख्येयासङ्ख्येयानन्तप्रदेशविकल्पानामन्यतमेन विकल्पेन भवितव्यम्, पुद्गलत्वाभावो वा परमाणोः, यदि च सङ्ख्येयादिप्रदेशभागिष्यते
१. आकाशस्यावगाहः । त.सू.भा. सि.
२. तेऽत्र निपुणतरमनुयोक्तव्याः । त.सू.भा.सि.
३. गुणमेव च भाष्यकारेणाप्युच्यते- लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधर्मजीवैस्तुल्याः (त.सू.भा.५.९)। त.सू.भा.सि.
४. यदि आकाशशब्देन । त.सू.भा.सि.
५. विभाग व्याख्यानं च। त.सू.भा. सि
६. सूत्रेण । त.सू.भा.सि.