________________
३६
ततोऽणुरेव न स्याद्घटादिवत् । अथाप्रदेशस्ततोऽसन्नसौ गगनोत्पलादिवदिति, अत्रोच्यते, द्वये प्रदेशाः द्रव्यरूपाः पर्यायरूपाः। पर्यायस्वभावाश्च रूपादयस्तदङ्गीकरणेन सप्रदेशः परमाणुः। यथा द्रव्यात्मकैरणुप्रदेशैः सप्रदेशो घटस्तथाणुरित्येवमसिद्धार्थता प्रचिकाशयिषया अणोरापूरकाः परिणामिकारणभावभाजो द्रव्यरूपाः प्रदेशाः न सम्भवन्ति। अथ अप्रदेशत्वेन परमाणुत्वाभावः साध्यते ततः स तादृशोऽन्त्यः प्रदेशः परमाणुर्न भवतीति प्रतीतिविरोधः । सप्रदेशत्वं चाव्यापकासिद्धदोषाघ्रातं वनस्पतिचैतन्ये स्वापवत्। न हि पक्षीकृतेऽणौ सर्वत्र सप्रदेशत्वमस्ति क्षेत्रकालभावाख्ये द्रव्यपरमाणावेव तत् ।
स्याद्वादपुष्पकलिका
[१०९] येऽपि प्रमाणयन्ति- मध्यविभागादिरहितत्वाद् व्योमोत्पलादिवदसन्नसौ तद्वत्त्वाद्वा नाणुर्घटादिवदित्यत्रापि पूर्वके प्रमाणे विज्ञानक्षणेनानेकान्तः । दिग्विभागकल्पनाप्यनेन प्रत्युक्ता पाश्चात्यप्रयोगे हेत्वसिद्धतोद्भावयिषया' आदिमध्यान्तप्रदेशैः परिहीण एव परिमाणुरिष्यते प्रदेशग्रहणादन्तपरिग्रहः । अथवा आदिमध्यग्रहणादर्थप्राप्तमेवान्तग्रहणम्। अस्मिन्पक्षे अप्रदेश इति प्रतिविशिष्टप्रदेशनिराकरणमेव कृतं भवति । आदिमध्यान्तप्रदेशैरप्रदेशो, न रूपादिभिरिति। न चादिमध्यान्तावयवनिबन्धनं वस्तुत्वं प्रतीतम्, विनापि तैर्विज्ञानाद्युपलब्धेरविभागत्वादेव च व्योमानुप्रदेशोऽपि प्रत्याख्यातो । न च सर्वगतत्वव्याघातो व्योम्नः, सकलवस्तुसम्बन्धित्वेनाभ्युपगम्यमानत्वात् प्रसिद्धविज्ञानक्षणवदतः स्वयमेवप्रदेशोऽसौ, न तस्यान्ये प्रदेशाः सन्ति द्रव्यस्वभावाः । सर्वं च साधनं तन्निराकरणेऽभिधीयमानं सदुपासितयथार्थगुरुवचसा परेणैवमधिगतद्रव्यपर्याय - नयद्वयसद्भावेन स्याद्वादिना विघटनीयमागमयुक्त्यनुसारिणेति।
[धर्मादिद्रव्याणां स्वान्यप्रतिष्ठितत्वविचारः]
[११०] अथैतानि धर्माधर्मपुद्गलजीवद्रव्याणि किं स्वात्मप्रतिष्ठानि व्योमवत्किं जलादिवदाधारान्तरप्रतिष्ठानि ? इति, उच्यते, निश्चयनयाभिप्रायेण सर्वे धर्मादयो द्रव्याः स्वात्मप्रतिष्ठिता भवन्ति । व्यवहाराभिप्रायेण लोकाकाशावगाहोऽस्ति अलोकाकाशेऽवगाहाभावादिति॥८३॥
[षड्द्रव्येषु निश्चयव्यवहारपक्षौ]
[१११] अथ षड्द्रव्येषु निश्चयव्यवहारपक्षौ निरूपणाय गाथामाह
[मूल] परिणामसप्रदेशनित्यकर्तृत्वकारणम्। क्रियसर्वगताश्चैव भवन्ति निश्चयेतरात् ॥८४॥
(व्याख्या) स्पष्टम् ॥ ८४॥
[प्रकारान्तरेण द्रव्याणां मूलसामान्यस्वभावाः]
[११२] अथ स्वभाव पक्षान्तरगाथाद्वयमाह
१. आह- नाणोः । त.सू.५.२१ अणोः प्रदेशा न भवन्ति । त. सू. भा. सि.
२. भाष्यकार आह- अनादिरमध्योऽप्रदेशो हि परमाणुः यस्माद्। त.सू.भा.सि.
३. यहां पर निश्चयेतरात् से क्या तात्पर्य है? यह स्पष्ट नहीं होता। निश्चय और व्यवहार से भेद है? या निश्चय से भिन्न सिर्फ व्यवहार नय से? यह स्पष्ट करना जरूरी है। ४. यहां पर पक्षान्तर की जगह प्रदर्शनाय पाठ संगत लगता है।