________________
स्याद्वादपुष्पकलिका
[मूल] द्रव्येषु मूलसामान्यस्वभावामी' (वा अ) भवन्ति षट् ।
अस्तित्वं वस्तु द्रव्यत्वं प्रमेयत्वं चतुर्थकम्॥८५॥
[मूल] सत्त्वं चागुरुलघुत्वं द्रव्येष्वेते निरन्तरम्। परिणामिकभावेन स्वतः परिणमन्ति च ॥८६॥
(व्याख्या) तत्र
१) नित्यत्वाद्युत्तरसामान्यानां पारिणामिकत्वादिविशेषस्वभावानामाधारभूतधर्मत्वं अस्तित्वम्। २) गुणपर्यायाधारभूतं वस्तुत्वम्।
३) अर्थक्रियाकारित्वं द्रव्यत्वं पूर्वोक्तमेव । अथवा उत्पादव्यययोर्मध्ये उत्पादपर्यायाणां जनकत्वं प्रसवत्वमाविर्भावलक्षणम्, व्ययभूतपर्यायाणां तिरोभाव(लक्षणम्) अभावरूपायाः शक्तेराधारत्वं द्रव्यत्वम्।
४) स्वपरव्यवसायि ज्ञानं प्रमाणम् । प्रमीयते अनेनेति प्रमाणम्। तेन प्रमाणेन प्रमातुं योग्यं तत्त्वं प्रमेयत्वम् चतुर्थः सामान्यः स्वभावोऽस्तीति। सत्त्वमित्यादि।
३७
५) उत्पादव्ययध्रुवयुक्तं सत्त्वम्।
६) षड्गुणहानिवृद्धिस्वभावाः सन्ति अगुरुलघुपर्यायाधारत्वमगुरुलघुत्वम्।
एते षट्स्वभावाः सर्वद्रव्येषु परिणमन्ति तेन सामान्यस्वभावाः प्रोच्यन्ते । तेनास्तित्वादय उत्तरसामान्यस्वभावा अवगम्यन्ते। ते अनन्ता अपि व्यक्तत्वेन भावोत्तरद्वारगाथायां नित्यत्वादयः पूर्वोक्ता एव भवन्ति। ते चानेकान्तजयपताकाया अवसेया इति ॥ ८५ ॥८६॥
[अस्तित्वादिषट् मूलसामान्यस्वभावाः] [११३] अथास्तित्वादिषड्मूलसामान्यार्थ प्रतिपादकसप्तगाथामाह[मूल] आधारभूतधर्मत्वमस्तित्वं च द्वितीयकम्। याज्जिनागमे ॥८७॥
[आविर्भावलक्षणम्]
[मूल] वोत्पादव्यययोर्मध्ये पर्यायोत्पादकानि च। जनकं प्रसवत्वं वाविर्भावलक्षणं भवेत्॥८८॥ [तिरोभावलक्षणम्|
अर्थक्रियायाः कारित्वं द्रव्यत्वं
अथ तिरोभावलक्षणमाह
[मूल] व्ययपर्यायकाणां च यस्तिरोभावको भवेत् । अभावरूपाया शक्तेराधारं द्रव्यलक्षणम्॥८९॥
[प्रमेयत्वलक्षणम्]
१. यहां पर असंधि होनी चाहिए।
२. यहां पर सामान्य के बाद स्वभाव पद होना जरूरी है- सामान्यस्वभावार्थ ।
३. इस गाथा क्रम में प्रथम दूसरे स्वभाव का वर्णन नहीं है। शायद एक गाथा कम है।
अथ प्रमेयत्वलक्षणमाह
[मूल] स्वान्यात्मकं बोधरूपं यज्ज्ञानं स्यात्प्रमाणकम्। तेन प्रमातुं यद्योग्यं प्रमेयत्वं तदुच्यते॥९०॥