________________
३८
[सत्त्वलक्षणम्]
अथ सत्त्वविचाररूपगाथामाह
[मूल] ध्रौव्योत्पादव्यययुतं तत्सत्त्वं प्रविनिर्दिशेत्।
[अगुरुलघुलक्षणम्]
अथागुरुलघुविचारप्ररूपकसार्द्धगाथामाह
षड्गुणवृद्धिहानिभ्यां स्वभावोऽस्त्यगुरुलघुः॥९१॥ [मूल] द्रव्यगुणप्रदेशाश्च भेत्तुं शक्या भवन्ति ये । सर्वद्रव्याधारभूतो (तम)गुरुलघुत्वमुच्यते॥९२॥ अथैतत्षट्सामान्यस्वभावफलविचारगाथामाह
[मूल] एते रसस्वभावाश्च सर्वद्रव्येषु सर्वदा । पारिणामिकयोगेन सामान्यानि (श्च) गदन्ति ते॥९३॥ अथान्य स्वभावविचारगाथामाह
[मूल] वस्तुष्वनन्तकाः सन्ति प्रोक्ताः सामान्यकाः जिनैः ।
त्रयोदशापि पश्यन्ति' अनेकान्तजयादिषु॥९४॥
(व्याख्या) वस्तुष्वित्यादि। स्पष्टम्॥९४॥
[द्रव्येषु नित्यादिस्वभावप्रदर्शनम्।
[११४] अथ द्रव्येषु नित्यादिस्वभावप्रदर्शनाय गाथामाह[मूल] पारम्पर्याप्रच्युतिभ्यां नित्यो युगविधः स्मृतः।
स्याद्वादपुष्पकलिका
कूटस्थपरिणामी द्वौ ग्रन्थान्ये विद्य (द्ये) तेऽथवा ॥ ९५॥
(व्याख्या) नित्यो द्विविधः स्मृतः = कथितः । तथाहि प्रथमा अप्रच्युतिनित्यता, द्वितीया पारम्पर्यनित्यता च। तत्र द्रव्याणामूर्दद्ध्वप्रचयतिर्यक्प्रचयेन ये परिणमन्ति पुनस्तदेवेति त्रिकालज्ञानरूपमप्रच्युतिनित्यकम्। मूलस्वभावाव्ययमूध्वप्रचयम्। प्रथमसमये द्रव्यपरिणतौ सत्यां स एव द्वितीयसमयेऽभिनवपर्यायोत्पादनं यः करोति पुनरपरपूर्वपर्यायव्ययेन सर्वपर्यायपरावृत्तिं दधात्यपि तदेव द्रव्यमित्यात्मकज्ञानोत्पादनमूध्वप्रचयं वदन्ति। तथा तिर्यक्प्रचयं द्रव्याणां प्रत्येकतुल्यं भिन्नजीवत्वरूपकं यज्ज्ञानं तत्तिर्यग्प्रचयम्। तत ऊध्वप्रचयानन्तर-मनेकोत्पादव्ययपरावर्तनं करोति, परन्तु कारणसाहाय्यात्तदेवेत्यात्मकज्ञानोत्पत्तिरूपो नित्यस्वभावधर्मो द्रव्येषु भवति। तथा द्वितीयं कारणकार्योत्पत्तौ सत्यां पुनर्द्वितीयसमये द्वितीयकारणेनापरकार्योत्पादनेऽपि तदेव पुद्गल इत्यात्मकज्ञानं पारम्पर्यनित्यस्वभावं वनस्पतिकायवदिति, आत्मा त्वेक एवास्ति । अन्ये परम्पराभिधानं सन्ततिरिति वदन्ति । तदेवं पूर्वपर्यायव्ययाभिनवपर्यायोत्पादनेऽपि तदेवेत्यात्मको बोधो नित्यः पर्यायानित्यस्वभावादिति ।
१. यहां पर भूतो की जगह भूतं पाठ अधिक संगत लगता है।
२. यहां पर सामान्यानि की जगह सामान्याश्च पाठ अधिक संगत लगता है।
३. यहां पर सामान्य पाठ अधिक संगत लगता है।
४. यहां पर संधि होनी चाहिए।