________________
स्याद्वादपुष्पकलिका
[११५] अथ ग्रन्थान्तरगतनित्यस्य भेदद्वयमाह- कूटस्थेत्यादि।
[कूटस्थनित्यस्वभावः] १) असङ्ख्येयप्रदेशात्मकजीवस्य सङ्ख्येयक्षेत्रप्रदेशावगाहनपरावृत्त्यभावः सर्वकूटस्थवन्नित्यस्वभावेन गुणानामविभागो भवतीति प्रथमः।
२) ज्ञानादयो गुणा जीवे पारिणामिकेन नित्यस्वभावाः, गुणानां स्वकार्य(र्ये) पारिणामिकधर्मत्वादिति। ननु ज्ञानादिगुणानां कूटस्थनित्यत्वं कथं न मन्यसे? इत्युच्यते, प्रथमसमये ज्ञेयज्ञानोत्पत्तौ कूटस्थभावेन सर्वदा ज्ञानस्थितिस्वभावेनाभिनवज्ञेयवृन्दपरिणमनज्ञानाभावो दोषः स्यात्। ज्ञानस्य तु प्रथमसमयमारभ्य सर्वदा समयस्थितिभावाद् यथार्थदोषः स्यादतः ज्ञेयघटपटादिपरावृत्त्यैव ज्ञानमप्याविर्भावेन स्यात्तद्यथार्थं भवति। अतो ज्ञेयज्ञानाय ज्ञानादयः पारिणामिकनित्या एव भवन्तीति।
पारिणामिकनित्यस्वभावः।
[११६] तत्र पारिणामिकत्वेन ज्ञानादिगुणानामुत्पादव्ययौ विविधप्रकारेण भवतः। तथाहि- विस्रसाप्रयोगजभेदाद् द्विभेदा उत्पादव्यया परिणमन्ति। सर्वद्रव्याणां चलनसहकारादिपदार्थक्रियाकरणं भवत्येव। तत्र चलनसहकारित्वं कार्यं धर्मास्तिकायपरिणमनं तेन कारणत्वपर्यायव्ययः कार्यत्वपरिणामस्योत्पादः गुणत्वेन ध्रुवत्वं प्रतिसमयं उत्पादव्ययौ कारणकार्ययोरपि स्यातामिति। यथा धर्मास्तिकायः प्रतिप्रदेशस्थगमनसहकारिगुणा-विभागोपादानकारणः स्वत एव चलनसहकारी कार्यं परिणमतीत्यतः कारणव्ययकार्योत्पादचलनसहकारिगुणध्रुवैः पारिणामिकस्वभावे परिणमति इत्याशयः। एवमधर्मादिष्वपि बोध्यम्। एवं सर्वद्रव्येषु सर्वेषां गुणानां स्वस्वकार्यकारणता ज्ञेया। इत्येका व्याख्या। तथा समस्तद्रव्याणां परिणामित्वं पूर्वपर्यायव्ययो नूतनपर्यायोत्पादः। इत्थमप्युत्पादव्ययौ द्रव्यत्वेन ध्रुवाविति द्वितीयः।
[११७] ३) तथा प्रतिद्रव्यं निजकार्यकारणपरिणमनपरावृत्तिगुणप्रवृत्तिरूपाः परिणतिरनन्ता अतीता। वर्तमाने एकानन्तजातीया आगामियोग्यतारूपा अनन्ता भवन्ति। वर्तमाना अतीता अनागता वर्तमाना भवन्ति। शेषा अनागताः कार्ययोग्यासन्नतां लभन्ते इत्येवमुत्पादादयो गुणत्वेन ध्रुवा इति तृतीयः।
[११८] अत्रान्ये कालद्रव्यमादृत्य परप्रत्ययत्वं वदन्ति, तदसत्, पञ्चास्तिकायस्य पर्यायत्वेनैव सिद्धान्ते कालस्य उक्तत्वादियं परिणतिः स्वकालत्वेन वर्तमानात्स्वप्रत्येयमेव। तथा कालस्य भिन्नद्रव्यत्वेऽपि कालस्य कारणभूतागामिवर्तमानत्वेन भवनं तु जीवादिद्रव्यस्यैव परिणतिरिति।
४) तथा श्रेयोवासे सिद्धात्मनि केवलज्ञानस्य यथार्थं ज्ञेयज्ञायकत्वाद्यथा ज्ञेया धर्मादयस्तथा घटपटादिरूपा वा परिणमन्ति, तथैव ज्ञाने भासनाद्यस्मिन्समये घटस्य प्रतिभासः समयान्तरे घटध्वंसे कपालादिप्रतिभासः तदा ज्ञाने प्रतिभासध्वंसककपालप्रतिभासस्योत्पादो ज्ञानरूपत्वेन ध्रुवत्वमिति। तथा धर्मास्तिकायस्य यस्मिन्समये सङ्ख्येयपरमाणूनां चलनसहकारिता, अपरसमये असङ्ख्येयानां सहकारिभावेनैवं सङ्ख्येयसहकारित्वव्ययास-ङ्ख्येयानन्तसहकारितोत्पादचलनसहकारित्वेन ध्रुवत्वम्। इत्थमधर्मादिष्वपि बोध्यम्। एवं सर्वगुणप्रवृत्तिष्विति चतुर्थः।