________________
४०
स्याद्वादपुष्पकलिका
[११९] ५) तथा समस्तद्रव्याणि अस्तिनास्तित्वेन परिणामीनि। तत्रास्तिभावानां निजधर्माणां पारिणामिकत्वेनोत्पादव्ययौ स्तः, नास्तिभावानां परद्रव्यादिना परावृत्तौ तेषां परावृत्तित्वेनाप्युत्पादव्ययौ ध्रुवत्वं च अस्तिनास्तिद्वयाविति पञ्चमः।
[१२०] ६) तथा पुनरगुरुलघुपर्यायाणां षट्हानिवृद्धिरूपाणां प्रतिद्रव्यं परिणमनभावानां हानिव्यये वृद्ध्युत्पादः, वृद्धिव्ययेन हान्युत्पादः ध्रुवत्वं चागुरूलघुपर्यायाणाम्। इत्थं सर्वद्रव्येषु ज्ञेयमिति। तथा अलोकाकाशस्याप्यगुरुलघुपर्यायपरावृत्तिरभ्युपेया। ते (न) त्वन्ये भवन्ति अन्यथाभिनवोत्पादव्ययौ नापेक्षिकाविति न्यूनत्वेन द्रव्यस्य सल्लक्षणे दोषः स्यादिति षष्ठमः।
। [१२१] ७) तथा विवाहप्रज्ञप्तिटीकायाम् अस्तिपर्यायाः सामर्थ्यरूपाः विशेषपर्यायास्ते चानन्तगुणाः ते प्रतिसमयं निमित्तभेदेन परावृत्तिरूपाः। तत्र पूर्वविशेषपर्यायाणां नाशः अभिनवविशेषपर्यायाणामुत्पादः पर्यायाणां ध्रुवत्वमित्यादि सर्वत्र ज्ञेयमिति सप्तमः।
नित्याभावे कार्यस्य निरन्वयः [नाशः] स्यात्कारणाभावश्च भवति, अतो युक्तमेवास्ति नित्यस्वभाव इति नित्यस्वभावः॥९४॥९५॥
[नित्यानित्यस्वभावास्वीकारे दोषः] [१२२] अथ केवलं नित्यमेव स्वीकुर्वाणो अनित्याभावे ज्ञापकतादिशक्तेरभावः स्यादर्थक्रियाया असम्भवो भवेद्। एतदेवाह[मूल] कार्यान्वयकारणाभ्यां युक्तो नित्य स्वभावकः।
द्रव्याणां गुण बोधायानित्योऽप्यस्ति द्वितीयकः॥९६॥ (व्याख्या) यत्सत्त्वे तत्सत्त्वमन्वयः अतः कार्यान्वयाय कारणप्रवृत्तये नित्यस्वभावो युक्तोऽस्ति। एवमनित्यस्वभावाभावे द्रव्याणां ज्ञानादिगुणज्ञापकादिशक्त्यभावेन गुणरूपकार्याभावः स्यादर्थक्रियाया असम्भवश्च, अतोऽनित्यस्वभावोऽप्यवश्यमेव वक्तव्यः॥९६॥
नित्यानित्ययोः परस्पराभावे दोषः।
[१२३] अथैकानेकस्वभावविचारगाथामाह[मूल] सर्वस्वभावपर्यायाधारभूतप्रदेशकान्। स्वक्षेत्रभिन्नरूपाणामेकोऽस्त्येकत्वपिण्डतः॥९७॥
(व्याख्या) सर्वेत्यादि। समस्तस्वभावः पर्यायाधारभूतप्रदेशानां निजनिजक्षेत्रभेदरूपाणामेकत्वपिण्डीरूपात्यागो एकस्वभावोऽस्तीत्यर्थः। तत्रास्तित्वप्रमेयत्वादयः सर्वे स्वभावा गुणविभागादीनामाधारभूतक्षेत्र-प्रदेशाश्च निजनिजक्षेत्रप्रदेशभावेन भिन्नभिन्नरूपाः सन्ति। इत्थमसङ्ख्येयप्रदेशभिन्नभावानामेकपिण्डस्वरूप-स्थितिमादरति। स एक स्वभावोऽस्ति सर्वप्रदेशान्योन्यान्तरालक्षेत्रावकाशाभावादित्याशयः। तत्र पञ्चास्तिकायेषु धर्माधर्माकाशाश्च एकद्रव्याणि सन्ति। ततो जीवोऽनन्तो भवति। ततः परमाणुपुद्गला अनन्तगुणाः सन्ति। एको जीवोऽनेकरूपादिकं गत्यादिषु परिभ्रमणं कुर्वन्समाचरति अन्तराभावात्तेन द्रव्येष्वैकस्वभावोऽस्तीति॥९७॥